________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ अमीमवत् ] 'मूङ् बन्धने' ( ६०१ ) मू । मवमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि → त् । 'णि श्रि द्रु- स्रु० ' (३।४।५८) डप्र० । “मूद्विः । " ह्रस्वः” (४।१।३९) ह्रस्वः । अनेन सन्वद्भावात् 'ओर्जान्तस्था० ' ( ४|१|६०) उ० इ० । 'उपान्त्यस्याऽसमानलोपि०' (४।२ । ३५) ह्रस्वः । 'लघोर्दीर्घो ऽस्वरादेः' (४।१।६४ ) दीर्घः । ' णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
२९०
[ अशिश्रवत्, अशुश्रवत् ] 'श्रुंट् श्रवणे' (१२९६) श्रु । शृण्वन्तं प्रायुक्त | 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि→ त् । 'णि श्रि दु०' ( ३।४।५८) डप्र० अ । “ श्रुद्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन सन्वद्भावात् 'श्रु-सुद्रु-पु-प्लु- च्योर्वा' (४।१।६१) वा उ० इ० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अदिद्रवत्, अदुद्रवत्] इं (११) - दुं ( १२ ) - 'ढुं गती' (१३) द्रु । द्रवन्तं प्रायुक्त । प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'नामिनोऽकलि-हले : ' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् | अद्यतनी दित् । 'णिश्रि-द्रु-सु०' (३।४।५८) प्र० अ । “द्रुद्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन सन्वद्भावात् ‘श्रु-सु-द्रु-पु-प्लु-च्योर्वा' (४।१।६१) वा उ० इ० । 'णेरनिटि' (४।३।८३) णिग्लोपः । ' अड् धातोरादि० ' ( ४।४।२९)
अट् ।
[अपिप्रवत्, अपुप्रवत्] च्युंङ् (५९४ ) - ज्युंङ् (५९५ ) - जुंङ् (५९६ ) - 'पुंङ् गतौ' (५९७) प्रु । प्रवमानं (णं) प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'नामिनोऽकलि-हले ः ' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि→ त् । 'णि- श्रि-दु-सु० ' ( ३।४।५८) ड० अ । “पु" द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन सन्वद्भावात् 'श्रु-सु-दु-पु-प्लु-च्योर्वा' (४|१|६१) वा उ० णिग्लोपः । 'अड् धातोरादि० ' ( ४।४।२९ ) अट् ।
इ० । 'णेरनिटि' (४।३।८३)
[अपिप्लवत्, अपुप्लवत्] च्युंङ् (५९४) - ज्युंङ् (५९५) - जुङ् (५९६) - पुंङ् (५९७) - 'प्लुंङ् गतौ' (५९८) प्लु । प्लवमानं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्’ (१।२।२४) आव् । अद्यतनी दित् । 'णि श्रि-दु- सु० ' ( ३।४।५८) डप्र० → अ । “प्लु” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) अनादिव्यञ्जनलोपः । अनेन सन्वद्भावात् 'श्रु-सु- द्रु-पु-प्लु- च्योर्वा' (४।१।६१) वा उ० इ० । णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । ' अड् धातोरादि०' (४।४।२९) अट् ।
[ अचिच्यवत्, अचुच्यवत्] 'च्युंङ् गतौ ' (५९४) च्यु । च्यवमानं प्रायुक्त | 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दित् । णिश्रिदु सु०' ( ३।४।५८) ड० अ । " च्यु द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन सन्वद्भावात् श्रु-सुद्रु-पु-प्लु- च्योर्वा' (४।१।६१) वा उ० इ० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अतूतवत्] 'तुंक् वृत्ति- हिंसा- पूरणेषु' (१०७९) तु । तुवन्तं प्रायुक्त । प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दित् । णिश्रिद्रु-सु०' (३।४१५८) डप्र० अ । “ तु 'द्विः । उपान्त्यस्याऽसमानलोपि ० ' ( ४।२।३५) ह्रस्वः । ' लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । ' अड् धातोरादि०' (४।४।२९) अट् ।
बृहद्वृत्तौ अनूनवत् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org