________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ॥
२८९
vNNNNNNNN
NowNNNNNNNNNNN
[अजीहरत्] 'हंग् हरणे' (८८५) हृ । हरन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः आर् | अद्यतनी दि → त् । ‘णि-श्रि-द्रु०' (३।४।५८) डप्र० → अ । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "ह"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'उपान्त्यस्याऽसमानलोपि०' (४२३५) ह्रस्वः । पूर्वमनेन इ० । 'हूस्वः' (४।१।३९) ह्रस्वः । 'लघोदीर्घोऽस्वरादे:' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अजीजवत्] 'जुं गतौ' (१९९०) जु इति सौत्रो धातुः । जवन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'नामिनोऽकलि-हलेः (४३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव् । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डप्र० → अ । “जु"द्वि: । 'ओन्तिस्था०' (४।१।६०) उ० → इ० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१४६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अयीयवत्] 'युक् मिश्रणे' (१०८०) यु । युवन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव । अद्यतनी दि → त् । 'णि-शि-दु-सु०' (३।४।५८) इप्र० → अ । “यु''द्विः । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) हूस्वः । ‘लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिगलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अरीरवत्] टुक्षु (१०८४) - ‘रु शब्दे' (१०८५) रु । रुवन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव । अद्यतनी दि →त् । 'णि-शि-दु-सु०' (३।४।५८) डा० → अ । रुद्विः । अनेन - ‘ओर्जा-ऽन्तस्था०' (४।१।६०) उ० → इ० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ‘लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९९) अट् ।
[अलीलवत्] 'लूग्श् छेदने' (१५१९) लू । लुनन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (११२१२४) आव । अद्यतनी दि -त । ‘णि-श्रि-द्र-स.' (३।४।५८) ङप्र० → अ । “लू"द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । अनेन - ‘ओर्जा-ऽन्तस्था०' (४११६०) उ०-→इ० । 'उपान्त्यस्या०' (४।२।३५) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादे:' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।।
[अपीपवत्] 'पूग्श् पवने' (१५१८) पू । पुनन्तं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव् । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डप्र० → अ | "पू"द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । अनेन - ‘ओर्जा-ऽन्तस्था०' (४।१।६०) उ० → इ० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) हूस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिगलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अबीभवत् 'भू सत्तायाम्' (१) भू । भवन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र० । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डग्र०
→ अ । “भू"द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन सन्वद्भावात् ‘ओर्जा-ऽन्तस्था०' (४।१।६०) उ० → इ० । 'द्वितीयतुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org