________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
२८७
[पिप्रावयिषति, पुप्रावयिषति] च्युङ (५९४) - ज्युङ् (५९५) - जुंङ (५९६) - 'पुंङ् गतौ' (५९७) पु ।' प्रवमाणं प्रयुडक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । प्रावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) “पु"द्विः । अनेन वा उ० → इ० । शेषं पूर्ववत् ।
[पिप्लावयिषति, पुप्लावयिषति] 'च्युङ्' (५९४) - ज्युङ (५९५) - जुंङ (५९६) - पुंङ (५९७) - 'प्लुंङ् गतौ' (५९८) प्लु । प्लवमानं प्रयुङ्क्ते । 'प्रयोक्तृव्या०-' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । प्लावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । “प्लु" द्वि । अनेन वा उ०→इ० । शेषं पूर्ववत् ।
[चिच्यावयिषति, चुच्यावयिषति] 'च्युङ् गतौ' (५९४) च्यु । च्यवमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । च्यावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१।३) 'च्यु"द्विः । अनेन वा उ० → इ० । शेषं पूर्ववत् ।
वचनादेकेन वर्णेन शकारादिनान्तस्थाया व्यवधानमाश्रीयते ।।
[शुश्रूषति(ते)] 'श्रृंट श्रवणे' (१२९६) श्रु । श्रोतुमिच्छति । 'तुमर्हादिच्छायां सन्न०' (३।४।२१) सन्प्र० । 'स्वरहन-गमोः सनि धुटि' (४।१।१०४) दीर्घः ऊ । ‘सन्-यश्च' (४।१।३) "श्रू"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हस्वः' (४।१।३९) ह्रस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[सुसूषति] 'लुं गतौ' (१५) सु । स्रवि(स्रो)तुमिच्छति । 'तुमर्हादिच्छायां सन्न०' (३।४।२१) सन्प्र० । 'स्वर-हनगमोः सनि धुटि' (४।१।१०४) दीर्घः ऊ । 'सन्-यडश्च' (४।१॥३) “सू"द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हस्वः' (४।१।३९) हूस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
[सोस्रविषति] सु । कुटिलं सवति । 'गत्यर्थात् कुटिले' (३।४।११) यम० → य । 'सन्-यडश्च' (४।१।३) “सु"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । सोसवितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।।छ।।
स्वपो णावुः ।।४।११६२।। [स्वपः] स्वप् षष्ठी डस्, अनन्तरसम्बन्धे षष्ठी । [णौ] णि सप्तमी ङि । [उ:] उ प्रथमा सि । सनीति निवृत्ति(तं) कार्यान्तरविधानात् ।
[सुष्वापयिषति] 'जिष्वपंक् शये' (१०८८) प्वप् । 'षः सोऽष्ट्य-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । स्वपन्तं प्रयोक्तुमिच्छति । णिग्-सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन उ० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । इट् । गुणे सति अय् । 'णि-स्तोरेवाऽस्वद-स्विद सहः षणि' (२।३।३७) षत्वम् ।
आनन्तर्यसम्बन्धषष्ठयाः फलमाह[असुष्वापकीयत्] स्वप् । स्वपितीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । “ञ्णिति' (४१३५०)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org