________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[पुस्फारयिषति ] 'स्फुरत् स्फुरणे' (१४६०) स्फुर् । स्फुरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'चि- स्फुरोर्नवा' (४।२।१२) स्फारादेशः । स्फारयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) " स्फु " द्विः । 'अघोषे शिट : ' ( ४।१।४५) सलोपः । द्वितीय -तुर्ययोः पूर्वी' (४।१।४२) फु०पु० । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् ।
२८६
[चुक्षावयिषति] 'टुक्षु शब्दे' (१०८४) क्षु । क्षुवन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । क्षावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘सन्-यङश्च' (४।१।३) “क्षु द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) षलोपः । 'क-डश्च-ञ्' (४।१।४६) कु० → चु० । इट् । ‘नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् ।
[शुशावयिषति ] 'ट्वोधि गति वृद्ध्यो:' ( ९९७) वि । श्वयन्तं प्रयोक्तुमिच्छति । णिग् सन्प्र० । 'श्वेर्वा' (४।१।८९ ) य्वृत् इ-व० उ० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । “शु' द्विः । इट् । 'नामिनो गुणोऽक्डिति' ( ४ | ३ | १) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् ।
[अचिकीर्तत्] 'कृतण् संशब्दने' (१६४९ ) कृत् । ' चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'कृतः कीर्त्तिः' (४।४।१२२) कीर्त्ति । अद्यतनी दित् । 'णि श्रि- द्रु-सु-कमः कर्त्तरि ङः ' ( ३।४।५८) ङप्र० । 'द्विर्धातुः परोक्षा- डे०' (४।१।१) “कीर्त्” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः ' ( ४|१ |३९) ह्रस्वः । 'क-डश्च- ञ्' (४१११४६) क० → च० । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
नन्वत्र "णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति" (न्या० सं० वक्षस्कार (२) / सूत्र (३५)) इति न्यायः तदा उपतिष्ठते यदा णिचि निमित्ते सति कीदेशः स्यात्, अत्र तु सामान्येन कीर्त्यादेश उक्तः, "येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम्” (न्या० सं० वक्षस्कार ( ३ ) / सूत्र ३) इति न्यायात् चुरादीउनीचता च णिच् अवश्यंभावी इति निमित्तं भवितुमर्हति ॥ छ ||
-सु-दु-पु-प्लु- च्योर्वा ||४|१ | ६१ ।।
[श्रुस्रुद्रुपुप्लुच्योः ] श्रुश्च सुश्च दुश्च पुश्च प्लुश्च च्युश्च = तत्, तस्य ।
[व] वा प्रथमा ।
[शिश्रावयिषति, शुश्रावयिषति ] 'श्रुंट् श्रवणे' (१२९६) श्रु । शृण्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । श्रावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र०, सर्वत्र ' णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति' ( वक्षस्कार ( २ ) / सूत्र ३५ ) ) न्यायात् वृद्ध्यादौ सत्यपि मूलधातुरूपमेव द्विः स्यात् । ' सन्-यङश्च' ( ४।१।३) “ श्रुद्विः । अनेन उ० इ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । गुणे सति अय् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् ।
[सिस्रावयिषति, स्रुस्रावयिषति ] इं (११) - दुं ( १२ ) - दुं (१३) शुं (१४) - 'सुं गतौ ' (१५) सु । सवन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्’ (३।४।२०) णिग्प्र० । अग्रे पूर्ववत् । अनेन वा उ०
इ० ।
[दिद्रावयिषति, दुद्रावयिषति ] इं (११) - दुं (१२) - 'दुं गतौ ' (१३) द्रु । द्रवन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२० ) णिगप्र० । अग्रे पूर्ववत् । अनेन वा उ०
इ० ।
P. प्रवमानं ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org