________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [इयर्त्ति ] 'ऋक् गतौ' (११३५) क्रू । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) द्विः । 'ऋतोऽतू' (४।१।३८) ऋ० - अ० । अनेन इ० । 'पूर्वस्याऽस्वे स्वरे योरियुक्' (४।१।३७ ) इय् । 'नामिनों गुणोऽक्डिति' (४।३।१) गु० अर् ।
२८२
[ इयृयात्] 'ऋक् गतौ' (११३५ ) ऋ । सप्तमी यात् । 'हवः शिति' ( ४।१।१२) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन इ० । 'पूर्वस्याऽस्वे स्वरे० ' ( ४।१।३७) इय् ।
[बिभर्त्ति ] 'टुडुभृंग्क् पोषणे च' (११४०) भृ । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) " भृद्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । अनेन इ० । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । 'नामिनो गुणोऽक्डिति' (४।३।१ )
गु० अर् ।
[बिभृयात् ] भृ । सप्तमी यात् । 'हवः शिति' (४।१।१२) "भृद्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । अनेन इ० । 'द्वितीय-तुर्ययोः पूर्वौ' (४।१।४२) भ० ब० ।
[मिमीते ] 'मां मान- शब्दयोः ' (११३७) मा । वर्त्त० ते । 'हवः शिति' (४।१।१२) " मा 'द्विः । ' ह्रस्वः' (४।१।३९ ) ह्रस्वः । अनेन इ० । 'एषामी व्यञ्जनेऽदः' (४१२१९७) आ०
ई० ।
[ अमिमीत ] 'मांक मान- शब्दयो: ' (११३७) मा । ह्यस्तनी त । 'हवः शिति' (४।१।१२) “मा" द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन इ० । एषामी व्यञ्जनेऽद:' ( ४।२।९७) आ० ई० । 'अड् धातोरादि०' (४।४।२९) अट् । (११३६) हा । वर्त्त० ते । 'हवः शिति' (४।१।१२) “हा” द्वि: । ' ह्रस्वः' ( ४।१।३९ ) ज० । अनेन इ० । 'एषामी व्यञ्जनेऽदः ' ( ४ । २ । ९७) आ० ई० ।
[जिहीते] 'ओहांङ्क् गतौ' ह्रस्वः । 'ग- होर्जः' (४।१।४०) ह० [अजिहीत ] 'ओहांङ्क् गतौ ' (११३६) हा । ह्यस्तनी त । 'हवः शिति' (४।१।१२) "हा द्विः । ' ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । 'ग- होर्ज:' ( ४।१।४०) ह० ज० । अनेन इ० । एषामी व्यञ्जनेऽद:' ( ४।२।९७) आ० ई० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[पिपर्त्ति] ‘पृ पालन-पूरणयोः' (११३४ / २) पृ । केचित्तु पृ पालनपूरणयोरिति जुहोत्यादौ दीर्घत्वं पठन्ति । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) द्विः । ' ह्रस्वः' (४।१।३९ ) ह्रस्वः । 'ऋतोऽत्' (४।१।३८ ) ऋ० अ० । अनेन इ० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[ पिपूर्त्तः ] पृ । वर्त्त० तस् । 'हवः शिति' ( ४३१।१२) द्विः । शेषं पूर्ववत् । 'ओष्ठ्यादुर्' (४|४|११७) उर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
[पिपूर्यात्] पृ । सप्तमी यात् । 'हवः शिति' ( ४|१|१२ ) द्विः । शेषं पूर्ववत् । 'ओष्ठ्यादुर्' (४|४|११७) उर् । 'भ्वादेर्नामिनो०' (२।१।६३ ) दीर्घः ।
[जहाति ] 'ओहांक् त्यागे' (११३१) हा । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) द्विः | 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग- होर्ज : ' ( ४।१।४०) ह० ज० ।
[पपार] 'पृक् पालन- पूरणयोः ' (११३४) पृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) “पृ' द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् ।
[आर] 'ऋक् गतौ' (११३५ ) ऋ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'अस्याऽऽदेराः परोक्षायाम् (४।१।६८) अ० आ० । 'नामिनोऽकलि-हले:' ( ४ | ३ |५१) वृद्धिः आर् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org