SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । भृशं पुनः पुनर्वा कल्पते । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यग्र० । ' सन्-यडश्च' (४।१।३) “कृ द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च - ञ्' (४।१।४६) क० च० । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । अनेन रि-स्-री आगमः । 'ऋ-र लृ-लं कृपोऽकृपीटादिषु' (२।३।९९) २० ल० । विकल्पे 'यङ्-तु-रु०' (४।३।६४ ) ईत् ई । २८० [नरीनृत्यते] ‘नृतैच् नर्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद् ० ' ( ३।४।९) य० । 'सन्-यडश्च' (४।१।३) "नृ" द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'ऋमतां री' (४।१।५५ ) “री” आगमः । [चाकरीति, चाकर्ति] 'कृत् विक्षेपे' (१३३४) कृ । भृशं पुनः पुनर्वा किरति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) यप्र० । 'सन्-यङश्च' (४।११३० द्विः । ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क-डश्च-ञ्' (४।१।४६) क० च० । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । 'यङ्-तु-रु०' (४।३।६४) ईत् → ई । [चाकीर्तः] कृ । भृशं पुनः पुनर्वा फिरतः । ' व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) य० । शेषं पूर्ववत् । ऋतां विङतीर्' (४|४|११६) इर् किर् पूर्वम् । वर्त्तमाना तस् । [चाकिरति] कृ । भृशं पुनः पुनर्वा किरन्ति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । शेषं पूर्ववत् । वर्त्त० अन्ति । ततः किर् । 'अन्तो नो लुक्' (४।२।९४) नलुक् । [ जागल्ति ] 'गृत् निगरणे' (१३३५) गृ । भृशं पुनः पुनर्वा गिरति । य० । 'सन्-यडश्च' (४।१।३) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'ग- होर्जः' (४/१/४०) ग० ज० । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । गु० अर् । 'लुप्यय्वृल्लेनत्' (७|४|११२) इति लत्वे कर्त्तव्ये यङः स्थानित्वात् 'ग्रो यङि (२|३|१०१) लत्वम् । [तातर्ति ] 'तू प्लवन-तरणयोः (२७) तृ । भृशं पुनः पुनर्वा तरति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यप्र० । 'सन्यङश्च' (४।१।३) द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४ ) यलुप् । वर्त्त० तिव् ||छ || निजां शित्येत् ||४|११५७ ।। [ निजाम्] निज् षष्ठी आम् । [शिति] श् इत् अनुबन्धो यस्याऽसौ शित्, तस्मिन् । [एत्] एत् प्रथमा सि । [नेनेक्ति] 'णिजूंकी शौचे च ' (११४१) णिज् । 'पाठे धात्वादेर्णो नः' (२।३ ।९७) निज् । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) ‘“निज्’”द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । अनेन पूर्वस्येकारस्य ए । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।१।८६) ज० ग० । 'अघोषे प्रथमोऽशिट: ' (१।३।५०) ग० क० । 1 [नेनिक्ते] निज् । वर्त्त० ते । 'हवः शिति' (४।१।१२) “ निज्” द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् अनेन पूर्वस्येकारस्य ए । 'च-जः क- गम्' (२1१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ग० क० । [नेनिज्यात्] निज् । सप्तमी यात् । ' हवः शिति' (४।१।१२) "निज्” द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) लुक् । अनेन ए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy