________________
२७८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । उपान्त्यवृद्धिः आ। फालयतीति क्विप् । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । फालिवाऽऽचरति । 'कर्तुः क्विप्, गल्भ-क्लीब०' (३।४।२५) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । भृशं पुनः पुनर्वा फ(फा)लति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४१३) द्वि: । एकदेशविकृतस्याऽनन्यत्वात् (वक्ष० १/सूत्र ७) 'चर-फलाम्' (४।११५३) मोऽन्तः । वर्त्त० ते ।
[चर्ति] चर्त्ति पूर्ववत् । अत्र 'लघोरुपान्त्यस्य' (४।३।४) इत्यनेन गुणः प्राप्नोति स न भवति ।
[पम्फुल्ति] भृशं पुनः पुनर्वा फलति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन्-यडश्च' (४।१।३) द्विः । 'चरफलाम्' (४।१।५३) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त० तिव् । अनेन अ० → उ० ॥छ।।
ऋमतां री ।।४।११५५।। [ऋमताम्] + ऋ विद्यते येषां ते = ऋमन्तः । तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत्, तेषाम् = ऋमताम् । षष्ठी आम् ।
[0] री प्रथमा सि । सूत्रत्वात् लोपः ।
[नरीनृत्यते] 'नृतैच नर्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । 'सन्-यडश्च' (४।१।३) "नृ" द्विः । 'ऋतोऽत्' (४।।३८) ऋ० → अ० । अनेन "री" आगमः । वर्त्त० ते ।
[दरीदृश्यते] 'दृशुं प्रेक्षणे' (४९५) दृश् । भृशं पुनः पुनर्वा पश्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । सन्-यङश्च' (४।१३) "दृ'द्विः । 'ऋतोऽत्' (४।११३८) ऋ० →अ० । अनेन "री" आगमः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[वरीवृत्यते] 'वृतूङ् वर्त्तने' (९५५) वृत् । भृशं पुनः पुनर्वा वर्त्तते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । 'सन्यडश्च' (४।१।३) "वृ"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन "री' आगमः । वर्त्त० ते ।
[वरीवृध्यते] 'वृधूङ् वृद्धौ' (९५७) वृध् । भृशं पुनः पुनर्वा वर्धते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्स० । 'सन्-यडश्च' (४।१।३) “वृद्वि: । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन “री" आगमः । वर्त्त० ते ।
[चलीक्लृप्यते] 'कृपौङ् सामर्थ्य' (९५९) कृप । भृशं पुनः पुनर्वा कल्पते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यमः। 'सन्-यडश्च' (४।१।३) "कृ"द्वि: । 'ऋतोऽत्' (४।१३८) ऋ० → अ० । अनेन "री" आगमः । वर्त० ते ।
[दरीधृज्यते] 'धृज गतौ' (१३०) धृज । भृशं पुनः पुनर्वा धर्जति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यय० । 'सन्यडश्च' (४।१।३) “धृ''द्विः । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । अनेन "री" आगमः । वर्त० ते ।
[परीपृच्छयते] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । भृशं पुनः पुनर्वा पृच्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प० । 'ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४1१1८४) य्वृत् प्र० → पृ० । 'सन्-यडश्च' (४।१।३) “पृ"द्विः । 'ऋतोऽत्' (४191३८) ऋ० → अ० । अनेन “री" आगमः । वर्त० ते ।।
- [वरीवृश्च्यते, वरिवृष्टि, वर्वृष्टि] ‘ओवस्चौत् छेदने' (१३४१) वस्च् । भृशं पुनः पुनर्वा वृश्चति । 'व्यञ्जनादेरेकस्वराद्'
ॐ बृहवृत्तौ यड्लुबन्तरूपं न दत्तम् ।
P+ ऋर्विद्यते.... ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org