SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७६ जपजभ - दह-दश-भञ्ज-पशः 11४1१ 1५२ ॥ [जपजभदहदशभञ्जपशः ] जपश्च जभश्च दहश्च दशश्च भञ्जश्च पश् च = जपजभदहदशभञ्जपश्, तस्य । [जञ्जप्यते, जञ्जपीति] 'जप मानसे च' (३३८) जप् । गर्हितं जपति । 'गृ-लुप सद-चर-जप-जभ - दश-दहो गयें' ( ३।४।१२ ) य० । 'सन्-यङश्च' (४।१।३) द्विः । अनेन मोऽन्तः । यङ्लुपि यङ् -तु-रु- स्तोर्बहुलम्' (४१३ १६४ ) ईत् → ई । [जञ्जभ्यते, जञ्जभीति] "जभ मैथुने' ( ३७९) जभ् । भृशं पुनः पुनर्वा जम्भति । 'गृ-लुप -सद-चर-जप -जभ० ' ( ३।४।१२ ) य० । 'सन्-यश्च' (४1१1३) द्विः । अनेन मोऽन्तः । ' बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'य-तु-रु० ' ( ४ | ३ |६४ ) ईत् । ' आगमशासनमनित्यम्' ( ) इति न्यायात् 'जभः स्वरे (४।४।१००) इति न नोऽन्तः । [दन्दह्यते, दन्दहीति] 'दहं भस्मीकरणे' (५५२) दह् । भृशं पुनः पुनर्वा दहति । 'गृ-लुप- सद-चर-जप-दश-दहो गयें' ( ३।४।१२ ) यप्र० । 'सन्-यडश्च' (४।१।३) द्विः । अनेन मोऽन्तः । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'यङ्-तु- रु०' ( ४ | ३ |६४ ) ईत् → ई । [दन्दश्यते, दन्दशीति] 'दंशं दशने' (४९६) दंशू । भृशं पुनः पुनर्वा दशति । 'गृ-लुप-सद-चर-जप-जभ०' (३।४।१२ ) यङ्ङ्ग्र० । ‘सन्-यङश्च’ (४।१।३) द्विः । अनेन मोऽन्तः । यङ्लुपि यङ्-तु- रु०' (४।३।६४ ) ईत् । 'नो व्यञ्जनस्याऽनुदितः ' ( ४।२।४५ ) नलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [बम्भज्यते, बाभञ्जीति] 'भजप् आमर्दने' (१४८६) भ । भृशं पुनः पुनर्वा भनक्ति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । 'सन्-यङश्च' (४।१1३) द्विः । अनेन मोऽन्तः । यङ्लुपि यङ्-तु-रु० ' ( ४ | ३ | ६४ ) ईत् । 'नो व्यञ्जनस्याऽनुदितः ' ( ४ । २ । ४५ ) नलोपः सर्वत्र । [पम्पश्यते, पम्पशीति] 'पशी बाधनग्रथनयोश्च' (६८) पशिति सौत्रो धातुः । भृशं पुनः पुनर्वापशति । ‘व्यञ्जनादेरेकस्वराद्०’ (३।४।९) यप्र० । 'सन् - यङश्च' (४|११३) द्विः । अनेन मोऽन्तः । यङ्लुपि यङ्-तु-रु०' (४।३।६४) ईत् → ई । पश (स) इति दन्त्यान्तं न्यायकारादयो मेनिरे, भोजस्तु तालव्यान्तम् । [दन्दशीति] पूर्ववत् ।।छ। चर - फलाम् ||४|११५३|| [चरफलाम् ] चरश्च फलौ च = चरफलः, तेषाम् । [चञ्चर्यते, चञ्चुरीति ] 'चर भक्षणे च' (४१०) चर् । गर्हितं चरति । 'गृ-लुप-सद-चर०' (३।४।१२ ) यप्र० । 'सन्यश्च' (४।१।३) द्विः । अनेन मोऽन्तः । 'ति चोपान्त्यातोऽनोदुः' (४।१।५४) उ । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । P. 9. जुभुङ् (७८२) 'जभैङ् गात्रविनामे' (७८३) जभ् । गर्हितं जम्भते । P. २. गर्हितं दहति । P. ३ गर्हितं दशति । ४. क्रियारत्नसमुच्चये वम्भजीति । P. चरश्च फलू च = चरफल्, तेषाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy