________________
२७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[बनीभ्रश्यते, बनीभ्रंशीति] 'भ्रंशूङ् अवलंसने' (९५२) भ्रंश् । भृशं पुनः पुनर्वा भ्रंशते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भ० → ब० । अनेन "नी" आगमः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । यङ्लुपि 'यङ्-तु-रु०' (४।३।६४) ईत् → ई ।
[चनीकस्यते, चनीकसीति] 'कस गतौ' (९८७) कस् ।' भृशं पुनः पुनर्वा कसति । 'व्यञ्जनादेरेकस्वराद्' (३।४।१) यङ्म० → य । ‘सन्-यडश्च' (४।१।३) द्वि: । ‘क-डश्च-ञ्' (४।१।४६) क० → च० । अनेन "नी" आगमः । यड्लुपि 'यङ्-तु-रु०' (४।३।६४) ईत् →ई ।
[पनीपत्यते, पनीपतीति] 'पत्तृ गतौ' (९८२) पत् । भृशं पुनः पुनर्वा पतति । व्यञ्जनादेरेकस्वरा' (३।४१९) यम० । 'सन्-यडश्च' (४।१।३) द्विः । अनेन "नी" आगमः । यङ्लुपि 'यङ्-तु-रु०' (४।३।६४) ईत् → ई।
- [पनीपद्यते, पनीपदीति] 'पदिच् गतौ' (१२५७) पद् । भृशं पुनः पुनर्वा पद्यते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्प्र० → य । 'सन्-यडश्च' (४।१।३) द्विः । अनेन "नी" आगमः । यड्लुपि 'यङ्-तु-रु०' (४।३।६४) ईत् →ई ।
[चनीस्कद्यते, चनीस्कन्दीति] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द् । “भृशं पुनः पुनर्वा स्कन्दते(ति) । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्प्र० । 'सन्-यडश्च' (४।१।३) द्वि: । 'अघोषे शिटः' (४।१।४५) सलुक् । 'क-डश्च-ञ्' (४।१।४६) क० → च० । अनेन "नी" आगमः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । यङ्लुपि 'यङ्-तु-रु०' (४।३।६४) ईत् → ई । दीर्घविधानात् इस्वो न भवति ।।छ।।
मुरतोऽनुनासिकस्य ।।४।१।५१॥ [मुः] मु प्रथमा सि । [अतः] अत् पञ्चमी डसि । [अनुनासिकस्य] अनु-पश्चान्नासिका - उच्चारणं यस्य सः = अनुनासिकस्तस्य ।
[बम्भण्यते, बम्भणीति] अण (२५९) - रण (२६०) - वण (२६१) - व्रण (२६२) - बण (२६३) 'भण शब्दे' (२६४) भण् । भृशं पुनः पुनर्वा भणति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० → य । 'सन-यडश्च' (४।१।३) "भ"हि । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । अनेन मोऽन्तः । यड्लुपि 'यङ्-तु-रु०' (४।३।६४) ईत् →ई।
[तन्तन्यते, तन्तनीति] 'तनूयी विस्तारे' (१४९९) तन् । भृशं पुनः पुनर्वा तनोति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्प० । 'सन्-यडश्च' (४।१३) द्विः । अनेन मोऽन्तः । यङ्लुपि 'यङ्-तु-रु०' (४।३।६४) ईत् →ई।
[जगम्यते, जगमीति] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५)- 'गम्लुं गतौ' (३९६) गम् । भृशं पुनः पुनर्वा गच्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४।१।३) द्विः । 'ग-होर्जः' (४।११४०) ग० → ज० । अनेन मोऽन्तः । यङ्लुपि 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् →ई ।
P. १. कुटिलं कसति । 'गत्यर्थात् कुटिले' (३।४।११) यङ्प० । 2. २. कुटिलं पतति । 'गत्यर्थात् कुटिले' (३।४।११) यङ्प० । P. ३. कुटिलं पद्यते । 'गत्यर्थात् कुटिले' (३।४।११) यङ्प० । P. ४. कुटिलं स्कन्दति । 'गत्यर्थात् कुटिले' (३।४।११) यङ्म० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org