SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ २७३ 'उपान्त्यस्याऽसमानलोपि०' ( ४ । २ । ३५) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिलोपः । इत्यत्र 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४ ) इत्यनेन सूत्रेण सन्वत्कार्यं न बाध्यते, त्वित्वे सति पूर्वस्य विकारेषु वाधको न बाधक इति न्यायज्ञापनार्थं सन्वत्कार्यं वाधायां तु अचाकरत् इति स्यात् ॥ छ ॥ न हाको लुपि ||४|१।४९ ।। [न] न प्रथमा सि । [:] हा षष्ठी । [लुपि] लुप् सप्तमी ङि । [जहाति, जहेति] 'ओहांक् त्यागे' (११३१ ) हा । भृशं पुनः पुनर्वा जहाति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४1९ ) यङ्ग्र० । 'सन्-यडश्च' (४|१ | ३) द्वि: । ' ह्रस्वः' ( ४।१।३९ ) ह्रस्वः । 'ग- होर्ज:' ( ४।१।४०) ह० ज० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् विकल्पेन । 'यङ्-तु-रु०' (४।३।६४ ) ईत् ई । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२३६) ए । [जेहीयते] हा । भृशं पुनः पुनर्वा जहाति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य०य । 'ईर्व्यञ्जनेऽयपि ' (४ । ३ ।९७) आ० ई० । 'सन् - यङञ्च' (४।१।३) " ही द्विः । ' ह्रस्वः' ( ४|१|३९) ह्रस्वः । 'ग- होर्ज:' ( ४।१।४० ) ह० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए ।। छ । । वञ्च-स्रंस-ध्वंस-भ्रंश-कस-पत-पद- स्कन्दोऽन्तो नीः || ४|१|५० || [वञ्चसंसध्वंसभ्रंशकसपतपदस्कन्दोऽन्तः] वञ्चश्च संसश्च ध्वंसश्च भ्रंशश्च कसश्च पतश्च पदश्च स्कन्द् च = वञ्चसंसध्वंसभ्रंशकसपतपदस्कन्द्, तस्य । अन्त प्रथमा सि । [नी: ] नी प्रथमा सि । द्युतादिध्वंससाहचर्यात् भ्रंशूङ् (९५२) - संसूङ् अवस्रंसने (९५३) इत्यस्यैव द्युतादिसंसो ग्रहः, संसूङ् प्रमादे (८४४) इत्यस्य न ग्रहणम्, यतः सास्रस्यते इति भवति । भ्रंशिरपि भ्रंशूङ् - ( ९५२ ) इति भ्वादिरेव गृह्यते, भ्वादिध्वंस (९५४) साहचर्यात् । भृशू (१२०४)- 'भ्रंशूच् अधःपतने' (१२०५) इत्यस्य न ग्रहणम्, यतः बाभ्रश्यते इत्येव भवति । [वनीवच्यते, वनीवञ्चीति] 'वञ्च गतौ' (१०६) वञ्च् । कुटिलं वञ्चति । 'गत्यर्थात् कुटिले' ( ३|४|११ ) य० य । ‘सन्-यङश्च' (४।१।३) द्विः । अनेन " नी” आगमः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । यङ्लुपि यङ्-तुरु-स्तोर्बहुलम्' (४।३।६४) ईत् ई । [सनीस्रस्यते, सनीस्रंसीति ] भ्रंशूङ् (९५२) 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९ ) य०य । अनादिव्यञ्जनलोपः । अनेन " नी" आगमः । यड्लुपि - Jain Education International 'संसूङ् अवस्रंसने' (९५३) संस् । भृशं पुनः पुनर्वास्रंसते । 'सन् - यङश्च' (४।१1३) द्विः । यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यङ्-तु-रु- स्तोर्बहुलम् ' ( ४ | ३ | ६४ ) ई ई । [ दनीध्वस्यते, दनीध्वंसीति] 'ध्वंसूङ् गतौ च' (९५४) ध्वंस् । भृशं पुनः पुनर्वा ध्वंसते । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यप्र० । ‘सन्-यडश्च' (४।११३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । द्वितीय-तुर्ययोः पूर्वी ' (४।१।४२) ध० द० । अनेन " नी" आगमः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । यङ्लुपि यङ् तु रु० ' ई । ( ४ | ३ |६४ ) ईत् For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy