SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [लोलूयते] 'लूगश् छेदने' (१५१९) लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । ‘सन्-यडश्च' (४।१।३) "लू"द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । अनेन गु० ओ । वर्त्त० ते । [जेहीयते] 'ओहांक त्यागे' (११३१) हा । भृशं पुनः पुनर्वा जहाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० → य । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ई० । 'सन्-यडश्च' (४।१।३) "ही"द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । अनेन गु० ए । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । [पापचीति पच् । भृशं पुनः पुनर्वा पचति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'सन्-यडश्च' (४।१।३) द्विः । अनेन आ । वर्त्तः तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् → ई । [बेभिदीति] भिद् । भृशं पुनः पुनर्वा भिनत्ति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० → य । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'सन्-यडश्च' (४।१३) द्विः । अनेन गु० ए । वर्तः तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् → ई । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । [लोलवीति] लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० → य । बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यडश्च' (४।१।३) द्वि: । अनेन गु० ओ । वर्त्तः तिव् । 'यङ्-तु-रु०' (४।३।६४) ईत् → ई । गुणे सति अव् । नैतावाकारगुणौ यनिमित्ताविति यड्लुप्यपि भवतः । [वनीवच्यते] 'वशू गतौ' (१०६) वञ्च । कुटिलं वञ्चति । 'गत्यर्थात् कुटिले' (३।४।११) यङ्म० -→ य । 'सन्यडश्च' (४।१।३) द्विः । 'वञ्च संस-ध्वंस-भ्रंश-कस पत-पद-स्कन्दोऽन्तो नीः' (४।१।५०) “नी' आगमः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । वर्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् । यंयम्यते] 'यमूं उपरमे' (३८६) यम् । भृशं पुनः पुनर्वा यच्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्स० → य । ‘सन्-यडश्च' (४।१।३) "य"द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । वर्त्त० ते । 'कर्तर्य०' (३।४।७१) शव् । [नरीनृत्यते] 'नृतैच् नर्त्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० → य । ‘सन्-यङश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ऋमतां री' (४/१५५) “री" आगमः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । [नरिनति] नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० → य । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यङश्च' (४।१३) द्वि: । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'रि-रौ च लुपि' (४।१।५६) "रि" आगमः । वर्त्तः तिव् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [नर्नति] नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० → य । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । ‘सन्-यडश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'रि-रौ च लुपि' (४।११५६) "र" आगमः । वर्त्त० तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [अचीकरत्] 'डुबंग करणे' (८८८) कृ । कुर्वन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डा० → अ । 'द्विर्धातुः परोक्षा-डे०' (४।११) "कार" द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) अनादिव्यञ्जनलोपः । हूस्वः' (४।१।३९) ह्रस्वः । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'असमानलोपे०' (४१४६३) अ० → इ० - एतत् सन्वत्कार्यम् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy