SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [लुलोके] 'लोकृङ् दर्शने' (६१२) लोक् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे० ' (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) कलोपः । अनेन ह्रस्वः लो० → लु० । [तुत्रौके] ककुङ् (६२२) - श्वकुङ् (६२३) - त्रकुङ् (६२४) श्रकुङ् (६२५) - श्लकुङ् (६२६) - ढौकृड् (६२७) 'त्रौकृङ् गतौ' (६२८) त्रौ । परोक्षा ए । 'द्विर्धातुः परोक्षा - उ०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन ह्रस्वः तो० → तु० । ग-होर्जः ।।४।१।४०॥ [गहोः] गश्च हु च = गहौ, तयोः = गहोः, षष्टी ओस् । [जः] ज प्रथमा सि । [जगाम] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतो' (३९६) गम् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४११1१) “गम्" द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४१९४४) मलुक । अनेन ग० -→ ज० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [जघास] ‘अदं भक्षणे' (१०५९) अद् । परोक्षा णव् । 'परोक्षायां नवा' (४।४।१८) अद्० --> घस्० । 'द्विर्धातुः परोक्षा-डे०' (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) सलुक् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ० → ग० । अनेन ग० → ज० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [जहौ] 'ओहांक त्यागे' (११३१) हा । परोक्षा णव ! 'द्विर्धातुः परोक्षा ३०' (४199) "हा" द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । अनेन ह० → ज० । 'आतो णव औ' (४।२।१२०) औ । 'ऐदौत् सन्ध्यक्षरैः' ( १ २ ) औ । ॐ [जिहासति] 'हसे हसने' (५४५) हस् । परोक्षा णव् । 'द्विर्धातुः परोक्षा डे०' (४1919) "हस्' द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) सलुक् । अनेन ह० → ज० । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः । वर्त० तिव । [जिहीर्षति] 'हृग् हरणे' (८८५) ह । हर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) रानप्र० । स्वर-हन० (४११०४) दीर्घः । 'ऋतां क्डितीर्' (४।४।११६) हिर् । 'सन्-यडश्च' (४।१।३) “हिर" द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) रलुक् । अनेन ह० → ज० । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । [जुहोति] 'हुंक दाना-ऽदनयोः' (११३०) हु । वर्त्तः तिव् । 'हवः शिति' (४191१२) "हु" द्वि: । अनेन ह० → ज० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । [जहाति] 'ओहांक त्यागे' (११३१) हा । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) "हा" द्विः । 'इस्वः' (४।१।३९) ह्रस्वः । अनेन ह० → ज० ।।छ।। धुतेरिः ।।४।१।४१।। [धुतेरिः] द्युति षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां०' (१।४।३५) र० । इ प्रथमा सि । [दिद्युते] ‘धुति दीप्तौ' (९३७) द्युत् । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) “द्युत्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन उ० → इ० । जन विद्यते इदमुदाहरणं बृहवृत्तौ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy