________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
२६५
[पुपूषति 'पूगश् पवने' (१५१८) पू । पवितुमिच्छति । 'तुमर्हादिच्छायां सन्न०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) “पू” द्विः । 'हस्वः' (४।१।३९) हूस्वः । 'नाम्यन्तस्था०' (२।३।१५) प० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'ग्रह-गुहश्च सनः' (४।४।५९) इनिषेधः ।
[इयाज] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४1919) “यज्" द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) जलोपः । 'यजादि-वश्-वचः०' (४।१।७२) य्वृत् य० → इ० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
[उवाप] 'डुवपी बीजसन्ताने' (९९५) वप् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “वप्" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलोपः । 'यजादि-वश्-वचः०' (४।१।७२) वृत् व० → उ० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः ।।छ।।
ऋतोऽत् ।।४19॥३८॥ [ऋतः] ऋत् षष्ठी डस् । [अत्] अत् प्रथमा सि ।
[चकार] 'डुकंग करणे' (८८८) कृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । अनेन ऋ० → अ० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् ।
[ववृधे] 'वृधूङ् वृद्धौ' (९५७) वृध् । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४/११४४) धलोपः । अनेन ऋ० → अ० ।।छ।।
ह्रस्वः ।।४।१।३९।।
[हूस्वः] ह्रस्व प्रथमा सि ।
[पपौ] 'पां पाने' (२) पा । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “पा" द्विः । अनेन ह्रस्वः । 'आतो णव औ' (४।२।१२०) णव् → औ । 'ऐदौत् सन्ध्य क्षरैः' (१९२।१२) औ ।
_ निनाय] ‘णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । परोक्षा णव् । 'द्विर्धातुः परोक्षाडे०' (४।१।१) द्विः । अनेन ह्रस्वः । नामिनोऽकलि-हलेः (४।३५१) वृ० ऐ । 'एदैतोऽयाय' (१२।२३) आय् ।
[लुलाव] 'लूग्श् छेदने' (१५१९) लू । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “लू” द्विः । अनेन ह्रस्वः । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
चकार 'क हिंसायाम्' (१५२९) कू । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । अनेन ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् ।
[सिसेके] ककुङ् (६२२) - श्वकुङ् (६२३) - त्रकुङ् (६२४) - श्रकुङ् (६२५)- श्लकुङ् (६२६) - ढौकृङ् (६२७) - त्रौकृङ् (६२८) - ष्वष्कि (६२९) - वस्कि (६३०)- मस्कि (६३१) - तिकि(६३२)- टिकि (६३३) - टीकृङ् (६३४) - 'सेकृङ् गतौ' (६३५) सेक् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) कलोपः । अनेन ह्रस्वः से० → सि० ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org