SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [[चिक्ये, चिच्ये] चि । परोक्षा ए । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) " चि" द्विः । अनेन चि० कि० । 'योऽनेकस्वरस्य' (२1१।५६) य० । २६४ [चेचीयते] चि । भृशं पुनः पुनर्वा चिनोति । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यप्र० । 'सन् - यडश्च' (४।१।३) “चि” द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'दीर्घश्च्वि-यङ्-यक्-क्येषु च ' ( ४ | ३ | १०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् || छ । पूर्वस्यास्वे स्वरे योरियुक् ||४|१|३७|| [पूर्वस्य ] पूर्व षष्ठी इस् । [अस्वे ] न स्वः = अस्वः, 'नञस्' (३।२।१२५) न० अ० तस्मिन् । [ स्वरे] स्वर सप्तमी ङि । [योः ] इश्च उश्च = यु, तस्य । [इयुव्] इय् च उव् च = इयुव् । प्रथमा सि । [इयेष ] 'इषत् इच्छायाम्' (१४१९) इष् । परोक्षा णव् । 'द्विर्धातुः परोक्षा ङे० ' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) लोपः । अनेन पूर्वस्य इकारस्य इय् पूर्वं 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ए । [उवोष] 'उषू दाहे' (५२९) उष् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः “उष्” । 'व्यञ्जनस्याऽनादेर्लुक्” (४।१।४४ ) षलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन “उव्” आदेशः । 'स्वरस्य परे प्राग्विधौ' (७|४|११०) इत्यनेन गुणस्य स्थानित्वे इयुवौ न स्तः परं परे इति सप्तमी निर्देशात् सप्तम्या निर्दिष्टे पूर्वस्य तच्चानन्तरस्यैव, अत्र तु प ( य ) कारेण व्यवधानमिति न स्थानित्वम्, अस्वे इति नञा निर्द्दिष्टमनित्यमिति वा । [इयर्ति] 'ऋक् गतौ' (११३५) ॠ । वर्त्त० तिव् । 'हवः शिति' ( ४।१।१२) द्विः । पृ-भृ-मा-हाडझमिः' (४।१।५८) पूर्वस्य ऋकारस्य इकारः । अनेन इय् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [ अरियर्ति, अरियरीति] 'ऋक् गतौ' (११३५ ) ॠ । भृशं पुनः पुनर्वा इयर्त्ति । 'अट्यर्त्ति सूत्रि - मूत्रि-सूच्यशूर्णोः ' ( ३।४।१० ) य० । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'सन्-यडश्च' (४।१।३) द्विः । ऋतोऽत्' (४।१।३८ ) ऋ० → अ० । 'रि-रौ च लुपि' (४।१।५६) "रि" आगमः । अनेन इय् । 'नामिनो गुणोऽक्डिति' ( ४|३|१) गु० अर् । द्वितीये 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४ ) ई ई । [ईषतुः] ‘इषत् इच्छायाम्' (१४१९) इष् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) लोपः । 'समानानां तेन दीर्घः' (१।२1१ ) दीर्घः । [ऊषतुः] 'उषू दाहे' (५२९) उष् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- ङे० ' ( ४।१।१) द्विः । ' व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) लोपः । 'समानानां तेन दीर्घः' (१।२1१) दीर्घः । [पिपक्षति] 'डुपचष् पाके' (८९२) पच् । पक्तुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च’ (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) चलोपः । 'सन्यस्य' (४।१।५९) इ । 'च-जः क- गम्' (२।१।८६) च० → क० । ‘नाम्यन्तस्था० ' (२।३।१५) षत्वम्, क-षसंयोगे क्ष० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy