________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [प्रजिघीषति ] प्र-हि । प्रहेतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर - हन - गमोः सनि धुटि' (४।१।१०४) दीर्घः । ' सन्-यडश्च' (४।१।३) "ही" द्विः । ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग- होर्ज:' ( ४।१।४०) ह० ज० । अनेन घ० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
२६२
[ प्रजेघीयते, प्रजेघेति] प्र-हि । भृशं पुनः पुनर्वा प्रहिनोति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) यप्र० य । सन्यङश्च' (४।१।३) “हि” द्विः । 'ग- होर्ज:' ( ४।१।४०) ह० ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । अनेन घ० । 'दीर्घश्च्वि-यङ् - यक्-क्येषु च ' ( ४ | ३ | १०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । द्वितीये 'बहुलं लुप्' ( ३।४।१४ ) यलुप् । 'नामिनो गुणोऽक्डिति' ( ४ | ३ |१) गु० ए ।
[जिघांसति ] 'हनंक् हिंसा-गत्योः ' (११००) हन् । हन्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । ‘सन्यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज:' ( ४|१|४०) ह० ज० । ‘सन्यस्य' (४।१।५९) इ । अनेन पूर्वस्मात् परस्य हस्य घ० । स्वर-हन-गमोः सनि धुटि (४।१।१०४) दीर्घः । 'शिड्-हेऽनुस्वारः' ( १।३।४० ) अनुस्वारः । वर्त्त० तिव् ।
[ जंघन्यते] हन् । भृशं पुनः पुनर्वा हन्ति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यडप्र० । 'सन्- यङश्च' (४।१।३) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक् ́ (४।१।४४) अनादिव्यञ्जनलोपः । ' ग - होर्ज : ' ( ४|१|४० ) ह० ( ४।१।५१ ) मोऽन्तः । अनेन पूर्वस्मात् परस्य हस्य घ० । वर्त्त० ते ।
ज० । 'मुरतोऽनुनासिकस्य'
। 'सन् - यङश्च' (४।१।३) द्विः । ज० । 'मुरतोऽनुनासिकस्य'
[जङ्घनीति] हन् । भृशं पुनः पुनर्वा हन्ति । व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) यप्र० 'व्यञ्जनस्याऽनादेर्लुक्' (४/१/४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज:' (४/१/४०) ह० (४।१।५१) मोऽन्तः | 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'यङ्-तु-रु- स्तोर्बहुलम्' (४।३।६४ ) ईत् → ई । अनेन पूर्वस्मात् परस्य हस्य घ० । वर्त्त० तिव् ।
[प्राजीहयत् ] प्र 'हिंदू गति-वृद्ध्योः ' (१२९५ ) हि । प्राहैषीत् कश्चित् तमन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्
'णि-श्रि-दु-स्रु०' (३।४।५८) ड० ह्रस्वः । ‘ग-होर्जः’ (४।१।४०) ह० 'णेरनिटि' (४।१।८३) णिग्लोपः ।
( ३।४।२०) णिग् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । एदैतोऽयाय्' (१।२।२३) आय् । अद्यतनी दि→ त् । अ । 'आद्योंऽश एकस्वरः' (४।१।२) द्विः । ' उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ज० । 'असमानलोपे० ' ( ४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४|१|६४) दीर्घः ।
[जिहननीयिषति] हन् । हन्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । हननमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र०य । क्यनि' ( ४ । ३ । ११२) अ० ई० । हननीयितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः’ (३।४।२१) सन्प्र० । “ह' द्विः । 'ग- होर्ज:' ( ४।१।४०) ह० ज० । 'सन्यस्य' (४।१।५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट्’ (४।४।३२ ) इट् । 'अतः' (४।३।८२) अकारलोपः । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
[प्रजिघाययिषति] प्र-हि । प्रहिण्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय् ' (१।२।२३) आय् । प्रहाययितुमिच्छति । सन्प्र० । “हा” द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । ‘ग-होर्जः’ (४।१।४०) ह० ज० । 'सन्यस्य' (४।१।५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । अनेन ह० घ० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org