________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
२६१
[अवदिग्यिरे] दे, अवपूर्व० । परोक्षा इरे । शेषं 'दिग्यिरे' वत् ।।छ।।
डे पिबः पीप्य ।।४।१।३३।।
[] ङ सप्तमी ङि । [पिबः] पिब् षष्ठी डस् । [पीप्य्] पीप्य् प्रथमा सि ।
[अपीप्यत्, अपीप्यताम्, अपीप्यन्] 'पां पाने' (२) पा । पिबन्तं प्रायुक्त । अपासीत् कश्चित्, तमन्यः प्रयुङ्क्ते वा । णिगप्र० । ‘पा-शा-छा सा-वे-व्या-हो यः' (४।२।२०) योऽन्तः । अद्यतनी त्-ताम्-अन् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डा० → अ । अनेन “पीप्य" आदेशः । 'अड् धातोरादि० (४।४।२९) अट् ।
[अपीपलत्] 'पांक् रक्षणे' (१०६७) पा । पान्तं प्रायुक्त । णिग्प्र० । ‘पातेः' (४।२।१७) इति लोऽन्तः-ल् । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डा० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) हूस्वः । 'आद्योऽश एकस्वरः' (४।१।२) "प" द्वि: । “असमानलोपे सन्वलधनि डे' (४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'अड धातोरादि०' (४।४।२९) अट् । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।।
[अपापयत्] 'पां पाने' (२) पा । पायि पूर्ववत् । भृशं पुनः पुनर्वा अपीप्यत् । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । ‘सन्-यङश्च' (४।१।३) “पा" द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । ‘आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङलुप । पा । पान्तं (पिबन्तं) प्रायुक्त । णिगप्र० । 'पा-शा-छा-सा-वे-व्या हो यः' (४।२।२०) योऽन्तः । अद्यतनी दि→त् । 'अड् 'धातोरादि०' (४।४।२९) अट् । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
[पाययति पा | पिबन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'पा-शा-छा-सा-वे-व्या-हो यः' (४।२।२०) योऽन्तः । वर्त्तः तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।।छ।।
अड़े हि-हनो हो घः पूर्वात् ।।४।१३४॥
[अ.] न ङः = अङः । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् ।
[हिहनः] हिश्च हन् च = हिहन्, तस्य । [हः] ह् षष्ठी डस् । [घः] घ प्रथमा सि । [पूर्वात्] पूर्व पञ्चमी डसि ।
[प्रजिघाय] 'हिंट गति-वृद्ध्योः ' (१२९५) हि, प्रपूर्व० । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “हि" द्विः । 'ग-होर्जः' (४११४०) ह० → ज० । अनेन पूर्वस्मात् परस्य हस्य घ० । 'नामिनोऽकलि-हलेः' (४१३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
54 शोषणे' (४७) अद्यतन्यां दिप्रत्यये अपासीत् भवति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org