________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
२६०
(४।१।३८) ऋ० अ० । 'स्क्रसृ-वृ-भृ-स्तु-दु-श्रु- स्रोर्व्यञ्जनादेः परोक्षायाः' (४।४।८१ ) इट् । 'स्कृच्छ्रतोऽकि परोक्षायाम्' (४।३।८) गु० अर्
[चिचयिथ, चिचेथ] 'चिंग्ट् चयने ' (१२९० ) चि । परोक्षा थव् । 'द्विर्धातुः परोक्षा ङे प्राक् ० ' ( ४।१।१) द्विः । 'सृजि- दृशि - स्कृ- स्वरा०' (४।४।७८) इट् ।
[लुलविथ] 'लूग्श् छेदने' (१५१९) लू । परोक्षा थव् । 'द्विर्धातुः परोक्षा- ङे० ' (४।१।१) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । ‘स्क्रसृ-वृ-भृ०’ (४।४।८१) इट् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ||छ।।
हौ दः || ४ |१| ३१ ॥
[ह] हि सप्तमी ङि ।
[द] दा षष्ठी डस् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः ।
[देहि] 'डुदांग्क् दाने' (११३८) दा । पञ्चमी हि । अनेन आ०
ए० ।
[धेहि] 'डुधांग्क् धारणे च' (११३९) धा । पञ्चमी हि । अनेन आ० → ए० ।
[देहि] ‘डुदांग्क् दाने’ (११३८) दा । भृशं पुनः पुनर्वा ददाति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य०य । ‘सन्-यङश्च' (४।१।३) “दा” द्विः । ह्रस्वः' (४|१ | ३९ ) ह्रस्वः । ' बहुलं लुप् ( ३।४।१४ ) यङ्लुप् । पञ्चमी हि । अनेन ए० । द्वित्वनिवृत्तिः ।
[दत्तात्] 'डुदांग्क् दाने' (११३८) दा । पञ्चमी हि । 'आशिषि तु ह्योस्तातङ्' ( ४।२।११९) हि०तातङ् । ‘हवः शिति' (४।१।१२) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलोपः । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) द० त० ।
[धत्तात्] 'डुधांग्क् धारणे च' (११३९) धा । पञ्चमी हि । 'आशिषि तु०' (४।२।११९) हि०तातङ् । 'हवः शिति' (४।१।१२) द्विः । ह्रस्वः' ( ४।१।३९) ह्रस्वः । द्वितीय - तुर्ययोः पूर्वी (४।१।४२) ध० द० । 'श्नश्चाऽऽतः ' (४।२।९६) आलोपः । 'धागस्त- थोश्च' (२।१।७८) ५० ध० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) ध० त० ॥छ।
Jain Education International
देर्दिगिः परोक्षायाम् ।।४ । १ । ३२ ।।
[देः] दि(दे) षष्ठी डस् । ' एदोद्भ्यां ङसि - डसो रः ' (१।४।३५) २० ।
[दिगि: ] दिगि प्रथमा सि ।
[परोक्षायाम् ] परोक्षा सप्तमी ङि । 'आपो ङितां०' (१।४।१७) डि० याम् ।
[दिग्ये] 'देंङ् पालने' (६०४) दे । परोक्षा ए । अनेन दिगि० । 'योऽनेकस्वरस्य' (२।१।५६) य० ।
[दिग्याते] दे । परोक्षा आते । अनेन दिगि० । 'योऽनेकस्वरस्य' (२।११५६) य० ।
. [ दिग्यिरे] दे । परोक्षा इरे । अनेन दिगि० । 'योऽनेकस्वरस्य ' (२।१।५६ ) य० ।
[अवदिग्ये] दे, अवपूर्वकः । परोक्षा ए । अनेन दिगि० । 'योऽनेकस्वरस्य ' (२।१।५६) य० । [अवदिग्याते] दे, अवपूर्व० । परोक्षा आते । शेषं 'दिग्याते' वत् ।
For Private & Personal Use Only
www.jainelibrary.org