SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः । २५९ थे वा ||४|११२९॥ [थे] थ सप्तमी ङि । [वा] वा प्रथमा सि। [देभिथ, ददम्भिथ] दम्भ् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४८१) इट् । अनेन ए० । पक्षे 'द्विर्धातुः परोक्षाडे' (४११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः ।।छ।। न शस-ददि-वादि-गुणिनः ।।४।१।३०।। [न] न प्रथमा सि । [शसददवादिगुणिनः] व आदिर्येषांते = वादयः, गुणो विद्यते येषां ते = गुणिनः, शसश्च ददश्च वादयश्च गुणिनश्च = शसददवादिगुणिन्, तस्य । विशशसतुः] 'शसू हिंसायाम्' (५४९) शस्, विपूर्व० । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “शस्" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।२।४५) सलुक् । [विशशसिथ] वि-शस् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “शस्" द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) सलुक् । ‘स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । __ [दददे] 'ददि दाने' (७२७) दद् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलुक् । [दददाते] दद् । परोक्षा आते । 'द्विर्धातुः परोक्षा-डे०' (४।११) दिः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलुक् । दिददिरे] दद् । परोक्षा इरे । 'द्विर्धातुः परोक्षा-डे०' (४११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४)दलुक् । [ववले] 'वलि संवरणे' (८०७) वल् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) ललुक् । [ववलाते] वल् | परोक्षा आते । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) ललुक् । [ववलिरे] बल । परोक्षा इरे । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) ललुक् । [ववणतुः] अण (२५९)- रण (२६०) - ‘वण शब्दे' (२६१) वण् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) णलुक् । ववणिथ] वण । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४११) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) णलुक् । 'स्क्रसृ-वृ-भृ०' (४।४।८१) इट् । [विशशरतुः] क (१५२९)- मृ (१५३०) - 'शृश् हिंसायाम्' (१५३१) शू, विपूर्व० । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'स्कृच्छृतोऽकि परोक्षायाम्' (४।३।८) गु० अर् । [विशशरिथ] वि-शू । परोक्षा थन् । 'द्विर्धातुः परोक्षा-डे० ' (४११) द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy