________________
२५८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
उ०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भ० → ब० ।
[अहं जजर] अहं 'जृष् जरसि' (११४५) जू । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वि: । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'नामिनो गुणोऽक्डिति' (४।३१) गु० अर् ।।छ।।
वा श्रन्थ-ग्रन्थो नलुक च ।।४।१।२७।।
[वा] वा प्रथमा सि ।
[श्रन्थग्रन्थः] श्रन्थश्च ग्रन्थ् च = श्रन्थग्रन्थ्, तस्य । श्रुथुङ्-ग्रथुङ् इत्यनयोलाक्षणिकत्वान्न भवति, प्रकृतिप्रत्यययोर्वचनभेदान्न यथासंख्यम् ।
[नलुक]卐 नो लुक् = नलुक् । [च] च प्रथमा सि ।
[श्रेथतुः, शश्रन्थतुः] 'श्रन्थश् मोचन-प्रतिहर्षयोः' (१५४६) श्रन्थ् । परोक्षा अतुस् । अनेन ए- नलुक् च । द्विर्धातुः परोक्षा-डे० (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।
[श्रेथिथ, शश्रन्थिथ] श्रन्थ् । परोक्षा थव । सृजि-दृशि-स्कृ-स्वरा०' (४।४७८) इट् । शेषं पूर्ववत् ।
[ग्रेथतुः, जग्रन्थतुः] 'ग्रन्थश् संदर्भ' (१५४८) ग्रन्थ । परीक्षा अतुस् । अनेन ए-नलुक च । द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४।१।४०) ग० → ज० ।
[ग्रेथिथ, जग्रन्थिथ] ग्रन्थ । परोक्षा थव् । ‘सृजि-दृशि-स्कृ०' (४।४।७८) इट् । अनेन ए-न्लुक् च ।
[शश्रन्थ] श्रन्थ् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।
[जग्रन्थ] ग्रन्थ् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४।१।४०) ग० → ज० ॥छ।।
दम्भः ।।४।१।२८॥
[दम्भः] दम्भ षष्ठी डस् । __ [देभतुः] 'दम्भूट दम्भे' (१३०९) दम्भ् । परोक्षा अतुस् । अनेन ए० । पूर्वं 'नो व्यञ्जनस्याऽनुदितः'(४।२।४५) नलुक्, ततः ए० ।
[देभुः] दम्भ् । परोक्षा उस् । अनेन ए० । पूर्वं 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक्, ततः ए० । __ [ददम्भ] दम्भ् । परीक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।।छ।।
P. मनस्य लुक् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org