SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ।। [जेरिथ, जजरिथ] जू । परोक्षा थव् । ‘स्कृच्छृतोऽकि परोक्षायाम्' (४।३।८) गु० अर् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) [भेमतुः, बभ्रमतुः] 'भ्रमू चलने' (९७०) भ्रम् । परोक्षा अतुस् । पूर्वं द्वित्वं, ततोऽनेन एकारः । 'द्विर्धातुः परोक्षाडे०' (४११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४/११४२) भ० → ब० । [भ्रेमिथ, बभ्रमिथ] भ्रम् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु-द्रु०' (४।४।८१) इट् । अनेन ए० । शेषं पूर्ववत् । [वेमतुः, ववमतुः] 'टुवमू उद्गिरणे' (९६९) वम् । परोक्षा अतुस् । पूर्वं द्विः । अनेन ए० । [वमिथ, ववमिथ] वम् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । शेषं पूर्ववत् । ["उद्वेमुस्तत्र रुधिरं रथिनोऽन्योन्यवीक्षिताः"] उत्-वम् । परोक्षा उस् । अनेन ए० ।। [त्रेसतुः, तत्रसतुः] ‘त्रसैच् भये' (११७१) त्रस् । परोक्षा अतुस् । पूर्वं द्वित्वं ततश्चानेन ए० । 'द्विर्धातुः परोक्षाडे०' (४।१।१) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।११४४) अनादिव्यञ्जनलोपः । [त्रेसिथ, तत्रसिथ] त्रस् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । शेषं पूर्ववत् । [फेणतुः, पफणतुः] 'फण गतौ' (१०३७) फण् । परोक्षा अतुस् । पूर्व द्वित्वं पश्चादनेन एकारः । 'द्विर्धातुः परोक्षा -डे०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) णलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) फ० → प० । [फेणिथ, पफणिथ] फण् । परोक्षा थव् । ‘स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । शेषं पूर्ववत् । [स्येमतुः, सस्यमतुः] 'स्यमू शब्दे' (३८७) स्यम् । परोक्षा अतुस् । अनेन ए० । 'द्विर्धातुः परोक्षा-डे० ' (४1919) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । [स्येमिथ, सस्यमिथ] स्यम् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । शेषं पूर्ववत् । [स्वेनतुः, सस्वनतुः] स्तन (३२३) - धन (३२४) - ध्वन (३२५) - चन (३२६) - ‘स्वन शब्दे' (३२७) स्वन् । परोक्षा अतुस् । अनेन ए० । [स्वेनिथ, सस्वनिथ] स्वन् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४८१) इट् । शेषं पूर्ववत् । [रेजतुः, रराजतुः] 'राजग दीप्तौ' (८९३) राज् । वृत्तौ स्वरस्यात इति श्लिष्टनिर्देशात् आकारस्याप्येत्वमनेन ए० । [रजिथ, रराजिथ] राज् । परोक्षा थव् । ‘सृजि-दृशि-स्कृ-स्वराऽत्वतस्तृनित्याऽनिटस्थवः' (४।४।७८) इट् । शेषं पूर्ववत् । भेजे, बभ्राजे] 'टुभ्राजि दीप्तौ' (८९४) भ्राज । परोक्षा ए । अनेन ए० । 'द्विर्धातुः परोक्षा-२०'(४११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → व० । [भ्रसे, बभ्रासे] 'टुभ्रासि दीप्तौ' (८४७) भ्रास् । परोक्षा ए । अनेन ए० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४191४२) भ० → ब० । [भ्लेसे, बभ्लासे 'टुभ्लासृङ् दीप्तौ' (८४८) भ्लास् । परोक्षा ए । पूर्व द्विर्वचनं पश्चात् अनेन ए० । 'द्विर्धातुः परोक्षा Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy