SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । तृ-त्रप-फल-भजाम् ।।४19२५|| [तत्रपफलभजाम्] तृश्च त्रपश्च फलश्च भज् च = तृत्रपफलभजः, तेषाम् । [तेस्तुः] 'तृ प्लवन-तरणयोः' (२७) तृ । द्विर्वचने कृते मूलधातोः तू । परोक्षा अतुस् । “प्राक् तु स्वरे स्वरविधेः" (४।१।१) इति वचनात् प्रथमं द्वित्वं पश्चात् गुणः, ततोऽस्य एत्वे कृते द्वित्वनिवृत्तिः, एवं उत्तरसूत्रे "रॉ" इत्यस्यापि 'स्कृच्छ्रतोऽकि परोक्षायाम्' (४।३।८) इत्यनेन गुणे सति तृ-त्रपति एत्वं भवति, द्विर्वचनं च निवर्त्तते । [तेरिथ] तू । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । शेषं पूर्ववत् । [पे] 'त्रपू(पौ)षि लज्जायाम् (७६२) त्रप् । परोक्षा ए । अनेन ए० । [पाते त्रप् । परोक्षा आते । अनेन ए० । [पिरे] त्रप् । परोक्षा इरे । अनेन ए० ।। [फेलतुः] दल (४१३) - "जिफला' विशरणे' (४१४) फल् । परोक्षा अतुस् । अनेन ए० । [फेलिथ] फल् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु०' (४।४।८१) इट् । शेषं पूर्ववत् ! [भेजिथ] 'भजी सेवायाम्' (८९५) भज् । परोक्षा थव् । ‘सृजि-दृशि-स्कृ०' (४।४।७८) वेट् । अनेन ए० । [अहं ततर अहं (४।१।२४) सूत्रवत् । तू | परोक्षा णव । 'द्विर्धातुः परोक्षा-२०' (४।११) "तृ" द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । गुणः ।। [बभक्थ] भज् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' (४1१1१) "भज्'' द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'च-जः क-गम्' (२।१८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (११३५०) ग० → के० । [तितीर्वान] तू । ततार । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । 'ऋतां क्डितीर्' (४।४।११६) इर् → तिर । 'द्विर्धातुः परोक्षा-डे०' (४।११) "तिर" द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) रलोपः । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घड्याव०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) सलोपः । बहुवचनं तु 'फल निष्पत्तौ' (४२८), दल (४१३) 'जिफला विशरणे' (४१४) इत्युभयोरपि परिग्रहार्थम् ।।छ।। जू-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो वा ।।४।१।२६।। [जभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासः] जृश्च भ्रमश्च वमश्च त्रसश्च फणश्च स्यमश्च स्वनश्च राजश्च भ्राजश्च भ्रासश्च भ्लास् च = जूभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लास्, तस्य । [वा] वा प्रथमा सि । [जेरतुः, जजरतुः] 'जूष जरसि' (११४५) जू । परोक्षा अतुस् । द्विर्वचने कृते मूलधातोः 'स्कृच्छ्रतोऽकि परोक्षायाम्' (४।३।८) इत्यनेन गुणं कृत्वा अतोऽनु एत्वं क्रियते । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) "M" द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'स्कृच्छ्रतोऽकि परोक्षायाम्' (४।३।८) गु० अर् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy