SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । N [मध्येगुरुः] मध्ये गुरुरस्य सः । [अन्तेगुरुः] अन्ते गुरुरस्य सः । अत्र समासविशेषस्याऽनुपादानाद् यथा तत्पुरुपे लुप् न भवति तथा वहुव्रीहावपि छ।। अमूर्द्ध-मस्तकात् स्वाङ्गादकामे ।।३।२।२२।। [अमूर्द्धमस्तकात् मूर्द्धा च मस्तकं च = मूर्द्धमस्तकम्, न मूर्द्धमस्तकं = अमूर्द्धमस्तकम् । 'नउत्' (३।२।१२५) न० → अ०, तस्मात् । [स्वाङ्गादकामे] स्वकीयमङ्गं यस्य तत्, तस्मात् । न कामोऽकामस्तस्मिन् । [उदरेमणिः] उदरे मणिरस्य सः । [वहेगडुः] वहे गडुरस्य सः । [पुतेवलिः] पुते वलिरस्य सः । [उरसिलोमा] उरसि लोमान्यस्य सः । [शिरसिशिखः] उरसि(शिरसि) शिखा यस्य सः । 'गोश्चान्ते०' (२१४।९६) ह्रस्वः । एतेषूदाहरणेपु उष्ट्रमुखादित्वात् समासः । [मूर्द्धशिखः] मूर्द्धनि शिखा यस्य सः । [मस्तकशिखः] मस्तके शिखा यस्य सः । 'गोश्चान्ते०' (२।४।९६) हूस्वः । [मुखपुरुषा शाला] मुखे पुरुषो यस्यां सा । [मुखकामः] मुखे कामोऽस्य सः । [अगुलिव्रणः] अङ्गुलौ व्रणं यस्य सः । [जड्यावलिः] जवायां वलिरस्य सः । [करकमलम्] करे कमलं यस्य तत् । गलरोगः] 'रुजोत् भने (१३५०) रुज् । रुजत्यरुजत्-रुरोज वा रोगः । 'पद-रुज-विश-स्पृशो घञ्' (५।३।१६) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च-जोः क गौ घिति' (४।१।१११) ज० → ग० | गले रा(रो)गो यस्य सः । [गलवणः] गले व्रणं यस्य सः । बहुलाधिकाराद्विभक्तिलोपः ।।छ।। बन्धे घजि नवा ।।३।२।२३।। [चक्रेबन्धः, चक्रबन्धः] चक्रे बन्धश्चक्रेवन्धोऽस्येति वा = चक्रवन्धः । [पुटपाकः] 'डुपची पाके' (८९२) पच् । पचनं = पाकः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' P. अत्र विशेषशब्दसमासस्याऽनुपादानात् यदा वहुवीहिस्तदा 'उष्ट्रमुखादयः' (३।१।२३) इत्यनेन वे(वै)यधिकरणे सर्वत्र समासः । अग्रेऽप्येवम् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy