________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
द्वित्वम् । उदके विशीर्णम् । 'क्तेन' (३।१।९२) इति तत्पुरुषः समासः ।
[अवतप्तेनकुलस्थितम् अव 'तपं सन्तापे' (३३३) तप । अवतप्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप० → त, तस्मिन् । अवतप्ते नकुलस्थितम् । 'क्तेन' (३।१।९२) इति तत्पुरुषः समासः ।
[भस्मनिमीढम्] भस्मनि मीढम् । 'क्तेन' (३।१।९२) इत्यनेन तत्पुरुषः समासः ।
[गोषुचरः] 'चर भक्षणे च' (४१०) चर् । गोषु चरतीति । 'इस्युक्तं कृता' (३।१।४९) तत्पुरुषः समासः । 'चरेष्टः' (५।१।१३८) टप्र० → अ ।
[मद्रचरः] मद्रेषु चरतीति । ‘चरेष्टः' (५।१।१३८) टप्र० → अ ।
[ग्रामकारकः ग्रामे करोतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् ।
[खेचरः, खचरः] खे-आकाशे चरतीति । 'चरेष्टः' (५।१।१३८) टप्र० → अ । [वनेचरः, वनचरः] वने चरतीति । ‘चरेष्टः' (५।१।१३८) टप्र० → अ । [पङ्केरुहम्, पङ्करुहम्] 'रुहं जन्मनि' (९८८) रुह् । पङ्के रोहतीति । 'मूलविभुजादयः' (५।१।१४४) कप्र० → अ । [सरसिरुहम्, सरोरुहम्] सरसि रोहतीति । 'मूलविभुजादयः' (५।१।१४४) कप्र० → अ । सि-अम् ।
[हृदिस्पृक्] 'स्पृशंत् संस्पर्श' (१४१२) स्पृश् । हृदयं स्पृशतीति । 'स्पृशोऽनुदकात्' (५।१।१४९) क्विप्प० । 'अप्रयोगीत्' (१।११३७) क्विप्लोपः । 'ऋत्विज्'० (२।१।६९) २० → ग्० । 'दन्त-पाद-नासिका०' (२।१।१०१) इति हृदादेशः । द्वितीयार्थेऽत्र सप्तमी । “विरामे वा' (१३५१) ग्० → क्० ।
[दिविस्पृक] दिवि स्पृशतीति । 'स्पृशोऽनुदकात्' (५।११४७) क्विप्र० । 'अप्रयोगीत्' (१1१1३७) क्विपलोपः । 'ऋत्विज्०' (२।१।६९) श्० → ग्० । 'विरामे वा' (११३५१) ग्० → क्० ।
[धन्वकारकः] धन्वनि-मरुदेशे कारको यस्य सः = धन्वकारकः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ।
[कल्याणाभिनिवेशः] कल्याणेऽभिनिवेशो यस्य सः । 'उष्ट्रमुखादयः' (३।१।२३) वहुव्रीहिः समासः । [धर्मरुचिः] धर्मे रोचनं(रुचिर्यस्य सः) । 'इ-कि-श्तिव् स्वरूपाऽर्थे' (५।३।१३८) इप्र० । [अक्षशौण्ड:] अक्षेषु प्रशक्तः शौण्डः । [अक्षकितवः] अक्षेषु प्रशक्तः कितवः । [कुरुचरः] कुरुषु चरतीति । 'चरेष्टः' (५।१।१३८) टप्र० → अ । [रात्रिचरः] रात्रिं(त्रौ) चरतीति । 'चरेष्टः' (५।१।१३८) टप्र० → अ । [नदीचरः] नद्यां चरतीति । 'चरेष्टः' (५।१।१३८) टप्र० → अ ।छ।।
मध्या-ऽन्ताद् गुरौ ।।३।२।२१।। [मध्याऽन्तात् ॥ मध्यं च अन्तश्च = मध्यान्तम्, तस्मात् ।
P.5 मध्यश्च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org