SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्चजो: क- गौ घिति' (४।१।१११) च० क० । पुटे पाकोऽस्य सः । [मनोरोगः] 'रजीं रागे' (८९६) रज् । रञ्जनं = रागः । भावा- ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र० अ । ‘घञि भाव-करणे' (४१२।५२) नलोपः । ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । क्तेऽनिटश्च - जो: ०' (४।१।१११ ) ज०ग० । मनसि रा ( रो ) गो यस्य सः । [चक्रबन्धः] वध्नातीति बन्धः | 'अच्' (५|१|४९) अच्प्र० अ । चक्रे वन्धः । [ हस्तबन्धः ] हस्ते बन्धः । [ चारकबन्धः ] चार एव = चारकः । यावादिभ्यः कः ' ( ७।३।१५) कप्र० । चारके बन्धः । [गुप्तबन्धः ] गुप्तौ बन्धः । [काराबन्धः] कारायां वन्धः । ' ऐकार्थ्य' ( ३।२।८) विभक्तिलोपः ।।छ।। कालात् तन-तर-तम-काले || ३ |२| २४|| [तनतरतमकाले] तनश्च तरश्च तमश्च कालश्च = तनतरतमकालम्, तस्मिन् । [पूर्वाह्णेतनः, पूर्वाह्णतनः ] पूर्व । अहन् । पूर्वमहूनः पूर्वाह्णः । 'सर्वांऽश संख्या- ऽव्ययात्' (७१३।११८) अट्समासान्तोऽह्नाऽऽदेशश्च । 'अतोऽह्नस्य' (२।३।७३ ) णत्वम् । सप्तमी ङि । पूर्वाह्णे भवः । पूर्वाह्णाऽपराह्णात् तनट्' (६।३।८७) तनट्प्र० तन । = [ अपराह्णेतनः, अपराह्णतनः ] अपर । अहन् । अपरमह्नोऽपराह्णः । 'सर्वांऽश संख्या- ऽव्ययात्' ( ७।३।११८ ) अट्समासान्तो ऽह्नाऽऽदेशश्च । 'अतोऽहूनस्य' (२।३।७३ ) णत्वम् । सप्तमी ङि । अपराहूणे भवः । 'पूर्वाह्णाऽपराह्णात् तनट्' (६१३ |८७) तनट्प्र० तन । [पूर्वाह्णेतराम्, पूर्वाह्णतरे] द्वयोर्मध्ये प्रकृष्टे पूर्वाह्णे = पूर्वाह्णेतराम् । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । यत्र विभक्तिलोपस्तत्र 'किं- त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याऽऽम्' (७१३१८) आम् न भवति । [पूर्वाह्णेतमाम्, पूर्वाह्णतमे] प्रकृष्टं(टे) पूर्वाह्णे । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । किं त्याद्येऽव्ययात्०' ( ७।३।८) आमन्ते । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [पूर्वाह्णेकाले, पूर्वाह्णकाले] पूर्वाह्णे च तस्मिन् काले च । [अपराह्णेकाले, अपराहूणकाले] अपराह्णे च तस्मिन् काले च । [ शुक्लतरे] द्वयोर्मध्ये शुक्लः = शुक्लतरः । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० तर । [ शुक्लतमे] प्रकृष्टः शुक्लः = शुक्लतमः । प्रकृष्टे तमप्' ( ७।३।५) तमप्प्रतम । [ रात्रितरायाम् ] + द्वयोर्मध्ये प्रकृष्टा रात्रिः । ' द्वयोर्विभज्ये च तरप्' (७।३१६) तरप्प्र० तर । [निशातमायाम् ] प्रकृष्टा निशा । प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । 93 P. द्वयोर्मध्ये प्रकृष्टे शुक्ले शुक्लतरे । P + द्वयोर्मध्ये प्रकृष्टायां रात्र्यां = रात्रिरायाम् । 'आत्' (२।४।१८) आप्प्र० आ । सप्तमी ङि । याम् । Jain Education International = For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy