________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
२५३
रभ-लभ-शक-पत-पदामिः ।।४।१।२१।। [रभलभशकपतपदाम्] रभश्च लभश्च शकश्च पतश्च पच्च == ते, तेषाम् । [[:] इ प्रथमा सि ।
[आरिप्सते] 'रभिं राभस्ये' (७८५) रम्, आड्यूर्व० । आरब्धुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन इ० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) भ० → प० । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव |
[लिप्सते] 'डुलभिंष् प्राप्तौ' (७८६) लभ् । लब्धुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अनेन इ० । [शिक्षति] 'शक्लृट् शक्तौ' (१३००) शक् । शक्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अनेन इ० । [पित्सति] 'पत्लु गतौ' (९६२) पत् । पतितुमिच्छति । 'तुमर्हादिच्छायां सन्न०' (३।४।२१) सन्प० । अनेन इ० । [पित्सते] 'पदिच् गतौ' (१२५७) पद् । पत्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन इ० ।
[पिपतिषति पत् । पतितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । 'इवृध-भ्रस्ज-दम्भ-श्रि-यूण्णु-भर-ज्ञपिसनि-तनि-पति-वृद्-दरिद्रः सनः' (४।४।४७) इट् । 'सन्-यडश्च' (४।१।३) "प" द्विः । 'सन्यस्य' (४११५९) इ० ।
बहुवचनं शकींच्-शक्लूटोरुभयोरपि परिग्रहार्थम् ।।छ।।
राधेर्वधे ।।४।१।२२।।
[राधेः] राधि षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए० । 'एदोद्भ्यां डसि-डसो रः' (१।४।३५) र० । [वधे] वध सप्तमी ङि ।
[प्रतिरित्सति] प्रति ‘राधं संसिद्धौ' (१३०४) राध् । 'राधंच वृद्धौ' (११५६) राधू । प्रतिराद्धमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन रा० → रि० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ध० → त० । वर्त्तः तिव् ।
[आरिरात्सति गुरून राध, आयूर्व० । आराद्धमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४१३) “रा" द्वि: । 'हूस्वः' (४।१।३९) इस्वः । 'सन्यस्य' (४१५९) इ० । 'अघोषे प्रथमोऽशिटः' (१।३५०) ध० → त० । गुरु द्वितीया शस् । 'शसोऽता सश्च नः पुंसि' (१।४।४९) दीर्घः-सश्च न० ।।छ।।
अवित्परोक्षा-सेट्थवोरेः ।।४।१।२३॥
[अवित्परोक्षासेट्थवोः] न वित् = अवित् । 'नञत्' (३।२।१२५) न० → अ० । अविच्चासौ परोक्षा च = अवित्परोक्षा । सह इटा वर्तत इति सेट, सेट् चासौ थव् च = सेट्थव्, अवित्परोक्षा च सेट्थव् च = अवित्परोक्षासेट्थवौ, तयोः = अवित्परोक्षासेट्थवोः, सप्तमी ओस् ।
[ए:] ए प्रथमा सि । [रेधतुः] ‘राधं संसिद्धी' (१३०४) राध् । परोक्षा अतुस् । अनेन आरूपस्वरस्य ए० । [रेधुः] राध् । परोक्षा उस् । अनेन आरूपस्वरस्य ए० । [रेधिथ] राध् । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः' (४।४।८१) इट् । अनेन आ० → ए० । एवं अप-प्रति-परिपूर्वकः ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org