SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५२ अनेन ‘“मित्” आदेशः । वर्त्त० तिव् ते । ' कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । [मित्सते] 'मींग्श् हिंसायाम् ' (१५१२) मी । मातुमिच्छति । 'तुमर्हादिच्छा०' ( ३।४।२१) सन्प्र० । अनेन " मित्" आदेशः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । यदा दैवादिकः 'मींच् हिंसायाम् ' (१२४६) मी, तदा तुच्छति । [प्रमित्सति, प्रमित्सते शत्रून् ] 'मींग्श् हिंसायाम्' (१५१२) मी प्रपूर्व० । प्रमातुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१ ) सन्प्र० । अनेन " मित्" आदेशः । वर्त्त० तिव्-ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । शत्रु द्वितीया शस् । ‘शसोऽता सश्च नः पुंसि' (१।४।४९) दीर्घः - सू० ० । यदा दैवादिकः 'मींड्च् हिंसायाम् ' (१२४६) मी, तदा प्रमेतुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [मित्सति] ‘मांक् माने' (१०७३) मा । मातुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । अनेन " मित्" आदेशः । वर्त्त० तिव् । [प्रमित्सते भूमिम्] 'मांड्क् मान- शब्दयोः ' (११३७) मा, प्रपूर्व० । प्रमातुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । अनेन " मित्" आदेशः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [अपमित्सते यवान्] अप 'मेंङ् प्रतिदाने' (६०३) मे । अपमातुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । अनेन “मित्” आदेशः । यव द्वितीया शस् । [मिमासति] मातुमिच्छन । 'तुमर्हादिच्छायां ० ' ( ३।४।२१ ) सन्प्र० । 'सन् - यङश्च' (४।१।३) “मा" द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । ‘सन्यस्य' ( ४।१।५९) इ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । [प्रदित्सति दानम् ] 'दां दाने (७) दा, प्रपूर्व० । प्रदातुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । अ ‘“इत्” । दीयते = दानम् । 'भुजि - पत्यादिभ्यः कर्मा - ऽपादाने' (५।३।१२८) अनट्प्र० → अन । ( ३।४।२१) सन्प्र० । अनेन "इत्" । पुत्र द्वितीया अम् । [दित्सते पुत्रम्] 'देंङ् पालने' (६०४) दे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) दा । [ दित्सति, दित्सते वस्त्रम् ] 'डुदांग्क् दाने' (११३८) दा । दातुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । अनेन " इत्" । 'तुमर्हादिच्छायां०' [दित्सति दण्डम्] ‘दोंच् छेदने' (११४८) दो । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) दा । दातुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन " इत्" । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । दण्ड द्वितीया अम् । [धित्सति स्तनम् ] 'ट्वें पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य' ( ४।२।१) धा । धातुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन " धित्" आदेशः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' ( ३ | ४ |७१ ) शब् । स्तन द्वितीया अम् । Jain Education Intemational [धित्सति, धित्सते श्रुतम् ] 'डुधांग्क् धारणे च' (११३९) धा । धातुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । अनेन “धित्” आदेशः । वर्त्त० तिव् - ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । श्रुत द्वितीया अम् । बहुवचनं व्याप्त्यर्थम्, तेन 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (न्या०स० वक्षस्कार (१) / सूत्र (३२)), 'एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य' (न्या०सं० वक्षस्कार ( १ ) / सूत्र ( ३३ ) ) 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (न्या०सं० वक्षस्कार ( १ ) / सूत्र (१५)) इत्यादि नाश्रीयते ॥ छ || For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy