________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ।।
२५१
[अर्दिधिषति] ऋध् । अर्धितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'इबृध-भ्रस्ज-दम्भ-श्रि-यूर्गु०' (४।४।४७) वेट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'लोकात्' (१।१।३) “अर्" विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) “धि" द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।११४२) ध० → द० । वर्त्त० तिव् । 'कतर्यनद्भ्य-शव' (३।४।७१) शव । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।।छ।।
दम्भो धिप धीप ।।४।१।१८।। [दम्भः] दम्भ षष्ठी डस् । [धिप्धीप्] धिप् च धीप् च = तत् ।
[धिप्सति, धीप्सति] 'दम्भूट दम्भे' (१३०९) दम्भ् । दम्भितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन “धिप्-धीप्" आदेशः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् ।
[दिदम्भिषति] दम्भ् । दम्भितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'इवृध-भ्रस्ज-दम्भ-श्रि०' (४।४।४७) इट् । 'सन्-यडश्च' (४।१।३) "द" द्विः । 'सन्यस्य' (४।११५९) इ । 'नाम्यन्तस्था०' (२।३१५) षत्वम् । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव ।।छ।।
अव्याप्यस्य मुचेर्मोग्वा ।।४।१।१९।। [अव्याप्यस्य न विद्यते व्याप्यं-कर्म यस्य सः = अव्याप्यः, तस्य । [मुचेः] मुचि षष्ठी इस् । 'डित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां डसि-डसो रः' (१।४।३५) र० । [मोग्वा] मोग(क) प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । वा प्रथमा सि ।
[मोक्षति, मुमुक्षति चैत्रः] 'मुच्लुंती मोक्षणे' (१३२०) मुच् । मोक्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन प्रथमे "मोक्" आदेशः । द्वितीये 'सन्-यडश्च' (४।१३) “मु” द्वि: । 'च-जः क-गम्' (२1१1८६) च० →क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्, क-षसंयोगे क्ष० । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[मोक्षते, मुमुक्षते वा वत्सः स्वयमेव मुमुक्षति वत्सं चैत्रः, स एवं विवक्षते नाहं मुमुक्षामि, किन्तु मुमुक्षते वत्सः स्वयमेव ।।छ।।
मि-मी-मा-दामित् स्वरस्य ।।४।१।२०।। [मिमीमादाम] मिश्च मीश्च माश्च दाश्च = मिमीमादाः, तेषाम् = मिमीमादाम्, षष्ठी आम् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।।
[इत्] इत् प्रथमा सि । [स्वरस्य] स्वर षष्ठी डस् ।
'मिग-मीगोऽखलचलि' (४।२।८) इत्यात्वे माद्वारेणैव सिध्यति, मिग्रहणं कथमिति ? सत्यम्, 'नामिनोऽनिट'. (४।३।३३) इत्यनेन सनः कित्त्वात् आत्वं न प्राप्नोति ।
[मित्सति, मित्सते शतम्] 'डुमिंग्ट प्रक्षेपणे' (१२८९) मि । मातुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org