________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
(१।४।८६) दीर्घः । ‘दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'पदस्य ' (२।१।८९) सलोपः । तृतीये 'अधातूदृदितः ' (२।४।२ ) ङी ई । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
२५०
[साहान्, साह्रांसौ] ' षहणू मर्षणे' (१९८१) षह्, इत्यस्य न निपातनं इष्टिवशात् । 'षहि मर्षणे' (९९०) षह् । ''षः सोऽष्ट्यै- ष्ठिव ष्वष्कः' (२।३।९८) सह् । सेहे, सेहाते । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र०वस् । अनेन परस्मैपदं - उपान्त्यदीर्घत्वं अद्वित्वं अनिट्त्वं च निपात्यते । परस्मैपदफलं प्रथमा सि-औ । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'न्स्महतोः ' (१।४।८६) दीर्घः । ' दीर्घड्याब्० ' (१।४।४५) सिलोपः ।
[मीवान् ] 'मिहं सेचने' ( ५५१) मिह् । मिमेह । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र० वसू । अनेन अत्र अद्वित्वं - अनित्वं उपान्त्यदीर्घत्वं-ढत्वं च निपात्यते । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'न्स्महतोः ' (१।४।८६) दीर्घः । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) सलोपः ।।छ।।
-
-
ज्ञप्यापो ज्ञीपीप्, न च द्विः, सि सनि ||४|१।१६।।
[ज्ञप्यापः ] ज्ञपिश्च आप् च = ज्ञप्याप्, तस्य ।
[ज्ञीपीप्] ज्ञीप् च ईप् च = ज्ञीपीप् । प्रथमा सि । ‘अनतो लुप्' (१।४।५९) सिलोपः ।
[न] न प्रथमा सि ।
[ द्विः] द्वौ वारावस्येति द्विः । 'द्वि-त्रि- चतुरः सुच्' (७।२।११०) सुच्प्र० ।
[ज्ञीप्सति] ‘ज्ञाणू मारणादिनियोजनेषु' (१७२०) ज्ञा । णिच्प्र० । यद्वा 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । जानन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति - री- व्ली - ही ० ' ( ४।२।२१) पोऽन्तः । ' मारण- तोषण-निशाने ज्ञश्च' (४।२।३०) ह्रस्वः । ज्ञपयितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । अनेन "ज्ञीप्' आदेशः ।
[ईप्सति] 'आप्लृट् व्याप्ती' (१३०७) आप् । आप्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । अनेन "ईप्" आदेशः ।
Jain Education International
[जिज्ञपयिषति ] ज्ञा । जानन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अर्त्ति - री - व्ली - ही ० ' ( ४।२।२१) पोऽन्तः । ' मारण- तोषण-निशाने ज्ञश्च' (४।२।३०) ह्रस्वः । ज्ञपयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'इवृधभ्रस्जदम्भ - श्रि-यूणु-भर-ज्ञपि सनि-तनि-पति- वृद्-दरिद्र-सनः ' ( ४।४।४७) इत्यादिना इट् । 'सन्-यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जन “न्" लोपः । 'सन्यस्य' (४।१।५९ ) अ० इ० । गुणे सति अय् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् ।
[आप्स्यति] 'आप्लृट् व्याप्तौ ' (१३०७ ) आप् । भविष्यन्ती स्यति ।।छ।।
ऋध ईर्त् ।।४।१।१७।।
[ ऋधः ] ऋ षष्ठी डस् ।
[ईर्त्] ईर्त् प्रथमा सि ।
[ईर्त्सति] ‘ऋधूच् वृद्धौ' (११८६) ऋध् । 'ऋधूट् वृद्धौ' (१३०६ ) ऋध् । अर्धितुमिच्छति । सन्प्र० । अनेन "ईत्” आदेशः । 'धुटो धुटि स्वे वा' (१।३।४८) तलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
For Private & Personal Use Only
www.jainelibrary.org