________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
२४९
wwwwwwwwwwwwwwwwwNNNNARIRAM
[चराचरः] 'चर भक्षणे च' (४१०) चर् | चरतीति । 'अच्' (५।११४९) अच्प्र०
→ अ । अनेन निपातः ।
[चलाचलः] 'चल कम्पने' (९७२) चल् । चलतीति । 'अच्” (५।१।४९) अच्प्र० → अ । अनेन निपातः ।
[पतापतः] 'पत्लु गतौ' (९६२) पत् । पततीति । 'अच्' (५।१।४९) अच्प्र० → अ । अनेन निपातः । [वदावदः] 'वद व्यक्तायां वाचि' (९९८) वद् । वदतीति । 'अच' (५।१।४९) अचप्र० → अ । अनेन निपातः ।
[घनाघनः] 'हनंक हिंसा-गत्योः ' (११००) हन् । हन्तीति । 'अच्' (५।१।४९) अच्प्र० → अ । हन्तेर्हस्य घत्वम् - पूर्वस्य च दीर्घः ।
[पाटूपटः] पट ग्रन्थे' (१८६०) पट् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ | पाटयतीति । 'अच्' (५/११४९) अच्प्र० →अ | पाटयतेरजन्तस्य द्वित्वं, हूस्वत्वं पूर्वस्य च ऊदन्तता निपात्यते ।
यल्लक्षणेनानुपपन्नं तत्सर्वं निपातनत्वम् ।।छ।।
चिक्लिद-चक्नसम् ।।४।१।१४।।
[चिक्लिदचक्नसम] चिक्लिदश्च चक्नसश्च = चिक्लिदचक्नसम् ।
.
[चिक्लिदः] 'क्लिदौच आर्द्रभावे' (११७९) क्लिद् । क्लिद्यतीति । 'नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः' (५।११५४) कप्र० । अनेन निपात्यते चिक्लिद: ।
[चक्नसः] 'क्नसूच हृति-दीप्त्योः' (११७०) क्नस् । क्नस्यतीति । 'अच्' (५।१।४९) अच्प० । अनेन निपात्यते चक्नसः ।
[चक्रुः] 'डुकंग करणे' (८८८) कृ । करोतीति । 'हनि-या-कृ-भृ-पू-तू-त्रो द्वे च' (उणा० ७३३) किद् उप्र० । अनेन निपात्यते ।
[ययुः] ‘यांक प्रापणे' (१०६२) या । यातीति । ‘हनि-या-कृ-भू-पृ-तृ-त्रो द्वे च' (उणा० ७३३) किद् उप० । अनेन निपात्यते ।
[बभुः] ‘टुडु,ग्क् पोषणे च' (११४०) भृ । बिभर्तीति । ‘हनि-या-कृ-भू-पृ-तृ-त्रो द्वे च' (उणा० ७३३) किद् उप्र० । अनेन निपात्यते ।।छ।।
दाश्वत् - सावत् - मीढ्वत् ।।४।१।१५।। [दाश्वत्साहत्मीढ़वत] + दास्वांश्च साह्वांश्च मीढ्वांश्च = तत् । संस्-ध्वंस-क्वस्सनडुहो दः (२११६८) त्रिष्वपि सस्य दः ।
[दाश्वान, दाश्वांसौ, दाशुषी] 'दासृग दाने' (९३३) दास् । ददास ददासतुः । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । अनेन अद्वित्वं अनिट्त्वं च निपात्यते । प्रथमा सि-औ । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' + 'पट ग्रन्थे' (१८६०) णिचि पटयति । 'पट भासार्थः' (१७७८) णिचि पाटयति । P. अट (१९४)- 'पट गतौ' (१९५) पट् । पटन्तं प्रयुङ्क्ते । णिग्प० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । पाटयतीति । 'अच्'
(५।१।४९) अच्प० । अनेन पाटूपट इति निपातः । P.+ हस्तप्रतिषु तालव्यशकारस्थाने दन्त्यसकारः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org