________________
२४८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
wwws
यिः सन् वेjः ।।४।१।११।। [यिः] यि प्रथमा सि । 'सो रुः' (२११७२) र० । ‘स पदान्ते०' (१३५३) विसर्गः ।
[सन्] सन् प्रथमा सि ।
[वा] वा प्रथमा सि ।
[ईjः] ईर्घ्य षष्ठी डस् ।
[ईयियिषति] सूर्थ्य (४००) - ईर्ष्या (४०१) - ‘ईj ईर्ष्यायाम्' (४०२) ईर्घ्य । ईयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । इट् । अनेन “यि" द्वि: । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[ऐयियत् ईष्र्ण्य । ईर्ण्यन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० →इ । अद्यतनी दि→त् । ‘णि-श्रि-दु-सु०' (३।४।५८) डा० → अ । अनेन “यि" द्विः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘स्वरादेस्तासु' (४।४।३१) वृद्धिः ऐ।
[ईयिषिषति ईर्ण्य । ईयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । इट । 'लोकात्' (१1१1३) “ईj' पाठउ विश्लेषियइ । अत्र अनेन “सन्' द्विः । 'सन्यस्य' (४१५९) इ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव ।।छ।।
हवः शिति ।।४।१।१२।।
[हवः] हु प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव' (१।२।२४) अव् । 'सो रुः' (२११७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ।
[शिति] श् इत् अनुबन्धो यस्याऽसौ शित्, तस्मिन् ।
[जुहोति] 'हुंक् दाना-ऽदनयोः' (११३०) हु । वर्त्त० तिव् । अनेन “हु" द्विः । 'ग-होर्जः' (४।१।४०) हु० → जु० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ ।
[जुहवत् हु । जुहोतीति । 'शत्रानशावेष्यति तु सस्यौ' (५/२।२०) शतृप्र० → अत् । अनेन द्वित्वम् । 'ग-होर्जः' (४।१।४०) हु० → जु० । 'ह्विणोरप्विति व्-यौ' (४।३।१५) वत्वम् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अन्तो नो लुक्' (४।२।९४) नलोपः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः ।
[जुहवानि] हु । पञ्चमी आनिव् । अनेन द्विः । 'ग-होर्जः' (४।१।४०) हु० → जु० । गुणे सति अव् ॥छ।।
चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा ।।४।१।१३।।
[चराचरचलाचलपतापतवदावदघनाघनपाटूपटम्] चराचरश्च चलाचलश्च पतापतश्च वदावदश्च घनाघनश्च पाटूपटश्च = चराचरचलाचलपतापतवदावदघनाघनपाटूपटम् ।
[वा] वा प्रथमा सि ।
न विद्यते इदमुदाहरणं बृहद्वृत्तौ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org