SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ २४३ चकारः पूर्वोक्तनिमित्तसमुच्चयार्थ उत्तरार्थ एव, तेनोत्तरत्र परोक्षा-डे सन्नन्त-यडन्तानां च यथासंभवं द्वित्वं सिद्धम् ।।छ।। स्वराऽदेर्द्वितीयः ।।४।१।४।। [स्वराऽऽदे:] स्वर आदिर्यस्य सः = स्वरादिः, तस्य । [द्वितीयः] द्वितीय प्रथमा सि । [अटिटिषति] 'अट गतौ' (१९४) अट् । अटितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अनेन “टि' इति द्विः । 'नाम्यन्तस्था०' (२।३.१५) पत्वम् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [अशिशिषति] 'अशूट (अशौटि) व्याप्तौ' (१३१४) अश् । अशितुमिच्छति । सनप्र० । इटि सति “शि" इति द्विः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० तिव् । [अटाट्यते] अट् । भृशं पुनः पुनर्वा अटति । 'अट्यर्त्ति-सूत्रि-मूत्रि-सूच्य-शूर्णोः' (३।४।१०) यङ्म० → य । अनेन "ट्य" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [अशाश्यते] अश् । भृशं पुनः पुनर्वा अश्नुति(ते) । 'अट्यति-सूत्रि०' (३।४।१०) यड्य० → य । अनेन "श्य" द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्या०' (२१1११३) अलोपः । [आटिटत्] अट् । अटन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३।५०) वृद्धिः आ । अद्यतनी दि → त् । 'णि-श्रि-द्रु०' (३।४।५८) डग्र० → अ । अनेन “टि" इति द्विः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः आ । [आशिशत्] अश् । अश्नुवानं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'ञ्णिति' (४।३।५०) वृद्धिः आ । अद्यतनी दि → त् । “णि-श्रि-द्रु-सु०' (३।४।५८) डग्र० → अ । अनेन “शि" इति द्विः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृ० आ । [प्रोणुनाव] प्र 'ऊर्गुग्क् आच्छादने' (११२३) ऊर्गु । परोक्षा णव् । 'लोकात्' (१1१।३) “ऊर्' पाठउ विश्लेषियइ । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (वक्षस्कार(१)/ सूत्र (२९)) णु० → नु० । अनेन "नु" इति द्विः । ‘र-पृवर्णान्नो ण०' (२।३।६३) न० → ण० । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अवर्णस्येवर्णादिनैदोदरल' (११२।६) ओ । [प्रोणुनविषति] प्र-ऊणु । प्रोर्णवितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० → स । 'लोकात्' (११३) "ऊर" पाठउ विश्लेषियइ । 'निमित्ताभावे०' (वक्षस्कार (१)/ सूत्र (२९)) णु० → नु० । अनेन "नु" इति द्विः । 'रवर्णान्नो ण०' (२।३।६३) न० → ण । ‘इवृध-भ्रस्ज-दम्भ-श्रि-यूष्णु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः' (४।४।४७) इट् । 'नामिनो गुणोऽक्डिति' (४१३१) गु० ओ । 'ओदौतोऽवाव' (११२१२४) अव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अवर्णस्येवर्णादिनैदोदरल' (१२१६) ओ । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy