SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "टि" द्विः । 'णेरनिटि' (४।३।८३) णिग्लोपः । ' स्वरादेस्तासु' (४।४।३१ ) वृद्धिः आ इत्यादि न सिद्ध्यति ॥ छ || २४२ आद्योऽश एकस्वरः || ४|१|२ || [आद्यः ] आदौ भवः = आद्यः । दिगादिदेहांशाद् य:' ( ६।३।१२४) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । प्रथमा सि । 'सो रु: (२।१।७२) स०र० । [ अंश: ] अंश प्रथमा सि । [ एकस्वरः ] एकः स्वरो यस्य सः = एकस्वर: । [जजागार] 'जागृक् निद्राक्षये' (१०९३) जागृ । परोक्षा णव् । अनेन "जा" द्विः । ' ह्रस्वः' ( ४|१|३९) ह्रस्वत् । 'जागृर्जि णवि' (४।३।५२) वृ० आर् । [ अचकाणत्] अण (२५९) रण ( २६० ) - वण (२६१ ) - व्रण ( २६२ ) - वण (२६३ ) - भण (२६४) भ्रण ( २६५ ) - मण (२६६ ) - धण (२६७) ध्वण (२६८ ) धण (२६९) 'कण शब्दे' (२७०) कण् । कणन्तं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्’ (३।४।२० ) णिग्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । ' भ्राजभास - भाष-दीप- पीड०' (४।२।३६) इत्यस्य विकल्पत्वात् न ह्रस्वत्वम् । अद्यतनी दि → तू । 'णि श्रि- द्रु० ' ( ३।४१५८) इ० अ । अनेन द्विः । 'क-डश्चञ्' (४।१।४६) क० च० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । एकस्वरार्थमुदाहृतं न बहुस्वरार्थम्, तेन काणि इत्यस्य न द्विर्वचनम् ॥छ || सन्-यङश्च ||४|११३ ॥ [ सन्यङ: ] सन् च यङ् च = सन्यङ् तस्य । [च] च प्रथमा सि । [तितिक्षते ] 'तिजि क्षमा-निशानयो:' (६६७) तिज् । 'गुप्-तिजो गर्हा- क्षान्तौ सन् ' ( ३।४।५) सन्प्र० आद्योंऽशो द्विः “ति" । 'च-जः क- गम्' (२1१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट: ' (१।३१५०) ग० 'नाम्यन्तस्था०' (२।३।१५ ) षत्वम्, क- पसंयोगे क्ष० । वर्त्त० ते । [चिकीर्षति ] 'डुकृंग् करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'स्वर-हन - गमो : सनि धुटि' (४।१।१०४) दीर्घः । ऋतां क्डितीर्' (४|४|११६ ) इर् । अनेन द्विः " कि" । 'क-इश्च- ञ्' (४|१|४६) क० च० । ‘भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११४) अलोपः । स । अनेन क० । [पापच्यते] 'डुपचष् पाके' (८९२) पच् । भृशं पुनः पुनर्वा पचति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) य० य । अनेन "प” द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । Jain Education International [लोलूयते ] 'लुग्श् छेदने' (१५१९) लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० य । अनेन द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy