________________
॥ अर्हम् ||
॥ अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
द्विर्धातुः परोक्षा- ङे प्राक् तु स्वरे स्वरविधेः ||४|१|१||
[द्विः] द्वि । द्वौ वारावस्य । 'द्वि-त्रि चतुरः सुच्' (७।२।११०) सुच्प्र० सू । 'क्रियाविशेषणात् ' (२१२ ।४१ )
अम् ।
[ परोक्षाङे ] परोक्षा च ङश्च = परोक्षाङम्, तस्मिन् ।
[ प्राक् ] प्राक् प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
प्राक् करणाभावेपि वृद्धे 'स्वरस्य परे० ' (७|४|११० ) इति स्थानित्वे सिद्धम् ? नैवम्, कार्यापेक्षायां स्थानित्वाभावः । [तु] तु प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
[ स्वरे] स्वर सप्तमी ङि ।
[ स्वरविधेः ] स्वरस्य विधिः
स्वरविधिस्तस्मात् ।
[पपाच] 'डुपचष् पाके' (८९२) पच् । परोक्षा गव् । अनेन द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) चलोपः । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
=
[पपाठ ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । परोक्षा णव । अनेन द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) ठलोपः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[इयाज ] 'यर्जी देवपूजा-सङ्गतिकरण- दानेषु' (९९१) यज् । परोक्षा णव् । अनेन द्विः । व्यञ्जनस्याऽनादेर्लुक्' ( ४।१।४४) जलोपः । यजादि - वश् वचः सस्वरान्तस्था वृत्' (४।१।७२) य्वृत् य० इ० । ञ्णिति' (४|३|५०)
उपान्त्यवृद्धिः ।
[आर] 'ऋक् गतौ' (११३५ ) ऋ । परोक्षा णव् । अनेन द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८ ) अकारस्य आ । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० आर् ।
[ अचकमत ] 'कमूङ् कान्ती' (७८९) कम् । अद्यतनी त । 'णि श्रि-दु-सु-कमः कर्त्तरि ङः ' ( ३।४।५८) डप्र० अ । अनेन द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलोपः । 'क-डश्च - ञ्' (४|१|४६) क० च० । 'कमेर्णिङ्' ( ३।४।२ ) पूर्वं णिङ् आनीयते । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः, पश्चात् अद्यतनी त । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education International
[प्राशिश्रियत्] प्र ' श्रिग् सेवायाम्' (८८३) श्रि । अद्यतनी दि त् । 'णि श्रि दु०' ( ३।४।५८) ड० अ । प्रस्य न धातुः । अनेन द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'संयोगात् ' (२।१।५२ ) इय् । 'अड धातोरादि० ' (४।४।२९) अट् ।
'वेत्तेः कित्' (३|४|५१ ) इति वचनादामि परोक्षाकार्यं न भवति ।
For Private & Personal Use Only
www.jainelibrary.org