________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । वृ० आर्, परिपूर्व० । परिवारयन्ति कण्टकैः पुरुषा वृक्षम्, ते एवं विवक्षते न वयं परिवारयामः, किन्तु परिवारयन्ते कण्टका वृक्षं स्वयमेव । अनेनात्मनेपदम् । वर्त्त० अन्ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
क्वचिन्न भवति
[ साध्वसिश्छिनत्ति ] 'छिपी द्वैधीकरणे' (१४७८) छिद् । साधू (धु) असिना छिनत्ति देवदत्तः, स एवं विवक्षते नाहं छिनद्म, किन्तु साधु यथा भवति तथा असिश्छिनत्ति । वर्त्त० तिव् । 'रुधां स्वरा० ' ( ३।४।८२) श्नप्र० । 'अघोषे प्रथमोऽशिट: ' (१।३।५०) द० त० ॥ छ।
इति श्रीसिद्धहेमचन्द्रव्याकरणे बृहद्वृत्तौ तृतीयस्याध्यायस्य चतुर्थः पादः समाप्तः ॥
२३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org