________________
अथ तृतीयाध्यायस्य चतुर्थः पाद: ॥
२३७
विकरोमि, किन्तु विकुर्वते सैन्धवाः स्वयमेव । वर्त्त० अन्ते । 'कृग-तनादेरुः' (३।४१८३) उप० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० → उ० । ‘इवर्णाद०' (१२।२१) व० । 'अनतोऽन्तोऽदात्मने' (४।२।११४) नलोपः । 'अनोः कर्मण्यसति' (३।३।८१) - 'वे: कृग: शब्दे चाऽनाशे' (३।३।८५) आत्मनेपदम् ।
[आहते गौः स्वयमेव आहन्ति गां गोपः, स एवं विवक्षते नाहं आहन्मि, किन्तु आहते गौः स्वयमेव ।
[पाचयिता, पाचयिष्यते ओदनः] 'डुपची पाके' (८९२) पच् । पचन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । पाचयिता ओदनं चैत्रः, स एवं विवक्षते नाहं पाचयितास्मि, किन्तु पाचयिता ओदनः स्वयमेव । पाचयिष्यति ओदनं चैत्रः, स एव विवक्षते नाहं पाचयिष्यामि, किन्तु पाचयिष्यते ओदनः स्वयमेव ।
[प्रस्नोता, प्रस्नोष्यते गौः] प्रस्नोता पूर्ववत् । अत्रात्मनेपदत्वात् 'स्नोः' (४।४५२) इत्यनेन इट् न भवति । प्रस्नविष्यति गां गोपः, स एवं विवक्षते नाहं प्रस्नविष्यामि, किन्तु प्रस्नोष्यते गौः ।
[उच्छ्रयिता, उच्छ्रयिष्यते दण्डः] उच्छ्रयिता पूर्ववत् । उच्छ्रयिष्यति दण्डं दण्डी, स एवं विवक्षते नाहं उच्छ्रयिष्यामि, किन्तु उच्छ्रयिष्यते दण्डः ।
[आहन्ता, आहनिष्यते गौः स्वयमेव आहन्ता पूर्ववत । आहनिष्यति गां गोपः, स एवं विवक्षते नाहं आहनिष्यामि, किन्तु आहनिष्यते गौः स्वयमेव । एतेषु अष्टासूदाहरणेषु मतान्तरे निट् न स्यात्, ‘स्ताद्यशितोऽत्रोणादेरिट' (४१४३२) इति इट् विशेषः । वाक्यानि पूर्ववत् ।
[प्रस्नौति गौर्दोग्धुः कौशलेन] प्र-स्नु । वर्त्त० तिव् । 'उत और्विति व्यञ्जनेऽद्वे:' (४!३१५९) उ० → औ ।
[नमति पल्लवो वातेन] ‘णमं प्रहत्वे' (३८८) णम् । 'पाठे धात्वादेों नः' (२०३९७) नम् । वर्त० तिव । 'कर्तर्यनद्भ्यः शव (३।४।७१) शव् ।
ननु कर्मस्था(स्थ)या क्रिया(य)या एक कर्मक्रिये कर्तरि जिक्यात्मनेपदानि भवन्ति, अत्र तु ण्यन्तानां प्रयोजकव्यापारः, सन्नन्तानां चेच्छाकर्तृस्थैव क्रियेति जिक्ययोः प्राप्ते(ति)रेव नास्ति, किं ततः प्रतिषेधेनेत्यत्रोच्यते-प्रयोजकव्यापारस्येच्छायाश्च प्रकृत्यर्थत्वात् करणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यम्, तस्य च कर्मस्थत्वात् णिग्-सन्नन्तानामपि कर्मस्थक्रियत्वम्,तथा बूते कथेत्यत्र वचनं शब्दप्रकाशनफलत्वात्, यद्वा उपाध्यायेनोक्तः करोतीतिवत् प्रेरणार्थत्वाद्वा कर्मस्थक्रियारूपम्, ननु वचनक्रिया देवदत्ते कर्तरि स्थिता, न तु कथाकर्मणि, ततः कथं कर्मस्थक्रिया इत्याह-शब्दप्रकाशनफलत्वादिति- अस्यां ये शब्दास्ते प्रकाशमाना वचनेन प्रकाशनफलत्वादिति- अस्यां ये शब्दास्ते प्रकाशमाना वचनेन प्रकाश्यन्ते इति यद्वेति चात्र प्रेरणार्थो वा अत्र बूग ततश्च बूते इति कोऽर्थः ? शिष्येण बुध्यमानं बोधयन्ती(ती)त्यर्थः, भूषाक्रियाणां तु भूषाफलं शोभाख्यं कर्मणि दृश्यते इति कर्मस्थक्रियत्वम्, एवमन्येषामपि भावनीयम् ।।छ।।
करणक्रियया क्वचित् ।।३।४।९४।। [करणक्रियया करणस्था क्रिया = करणक्रिया, तया । [क्वचित् क्वचित् प्रथमा सि । 'अनतो लुप्' (३।२।६) सिलोपः (?) । ('अव्ययस्य' (३।२।७) सिलोपः) । एतदधिकारायातत्वात् योजितं क्वचिद्ग्रहणात्तु सकर्मकत्वेऽपि भवति ।
[परिवारयन्ते कण्टका वृक्षं स्वयमेव] 'वृगट वरणे' (१२९४) वृ । वृण्वन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । यद्वा 'वृगण आवरणे' (१९४६) वृ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'नामिनोऽकलि-हलेः' (४३५१) P.; करणेन दृष्टा ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org