________________
२३६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । अवोचम्, किन्तु अवोचत । अद्यतनी त । 'अस्ति-बुवोभू-वचावशिति' (४।४।१) बू० → वच० । 'शास्त्यसू-वक्ति-ख्यातेरङ्' (३।४।६०) अप्र० । 'श्वयत्यसू-वच-पतः श्वा-ऽऽस्थ-वोच-पप्तम्' (४।३।१०३) वच० → वोच० । 'अड् धातोरादि०' (४।४।२९) अट् ।
ब्रूते(बवीति) कथां चैत्रः, स एवं विवक्षते नाहं बुवे(ब्रवीमि), किन्तु बूते कथा स्वयमेव ।
[अश्रन्थिष्ट, श्रथ्नीते, श्रन्थते माला स्वयमेव] 'अन्थ सन्दर्भे' (१९५८) श्रन्थ । 'श्रन्थश् मोचन-प्रतिहर्षयोः' (१५४६) श्रन्थ् । अश्रन्थीत् मालां मालिकः,स एवं विवक्षते नाहं अश्रन्थिषम्, किन्तु अश्रन्धिष्ट । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । इट् । ‘अड् धातोरादि०' (४।४।२९) अट् ।
श्रध्नाति श्रन्थति वा माला मालिकः, स एवं विवक्षते नाहं श्रध्नामि श्रन्थामि, किन्तु श्रथ्नीते श्रन्थते माला स्वयमेव । वर्त्त० ते । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० । अन्यत्र शव ।
[अग्रन्थिष्ट, ग्रथ्नीते, ग्रन्थते ग्रन्थः स्वयमेव] 'ग्रन्थश् सन्दर्भे' (१५४८) ग्रन्थ् । 'ग्रन्थण सन्दर्भ' (१९५९) ग्रन्थ् । अग्रन्थीत् ग्रन्थं विद्वान्, स एवं विवक्षते नाहं अग्रन्थिषम्, किन्तु अग्रन्थिष्ट ।
ग्रथनाति ग्रन्थति ग्रन्थं विद्वान, स एवं विवक्षते नाहं ग्रध्नामि ग्रन्थामि, किन्तु ग्रनीते ग्रन्थते ग्रन्थः स्वयमेव । श्रन्थिग्रन्थी क्यादौ युजादौ वा ।
[अनस्त, नमते दण्डः स्वयमेव ‘णमं प्रहत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । अनसीत् दण्डं दण्डी-अनीनमदित्यर्थः, स एवं विवक्षते नाहं अनंसिषम्, किन्तु अनंस्त । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'शिड-हेऽनुस्वारः' (१३।४०) अनुस्वारः ।
नमति दण्डं दण्डी, स एवं विवक्षते नाहं नमामि, किन्तु नमते दण्डः स्वयमेव ।
[परिणमते मृत् स्वयमेव परि-नम् । परिणमति मृदं कुलालः, स एवं विवक्षते नाहं परिणमामि, किन्तु परिणमते मृत् स्वयमेव ।
कृ-गृ-दुह-बू-श्रन्थ्-ग्रन्थ्-नम् इति किरादयः ।
[कारयते कटः स्वयमेव 'डुकंग करणे' (८८८) कृ । कुर्वन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० →इ । 'नामिनोऽकलि-हलैः (४।३।५१) वृ० आर् । कारयति कटं चैत्रः, स एवं विवक्षते नाहं कारयामि, किन्तु कारयते कटः स्वयमेव । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[चोरयते गौः स्वयमेव] 'चुरण स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । चोरयति गां देवदत्तः, स एवं विवक्षते नाहं चोरयामि, किन्तु चोरयते गौः स्वयमेव ।
[प्रस्नुते गौः स्वयमेव] 'स्नुक प्रस्नवने (प्रसवणे)' (१०८३) स्नु, प्रपूर्व० । प्रस्नौति गां गोपः, स एवं विवक्षते नाहं प्रस्नौमि, किन्तु प्रस्नुते गौः स्वयमेव ।
[उच्छ्रयते दण्डः स्वयमेव उत् 'श्रिग् सेवायाम्' (८८३) श्रि । उच्छ्रयति दण्डं दण्डी, स एवं विवक्षते नाहं उच्छ्रयामि, किन्तु उच्छ्रयते दण्डः स्वयमेव ।
आत्मनेपदाकर्मकः[विकुर्वते सैन्धवाः स्वयमेव वि 'डुकंग करणे' (८८८) कृ । विकरोति सैन्धवान् देवदत्तः, स एवं विवक्षते नाहं
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org