SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । बिभित्सिष्यति कुसूलं चैत्रः, स एवं विवक्षते नाहं बिभित्सिष्यामि, किन्तु बिंभित्सिष्यते । भविष्यन्ती स् । इट् । बिभित्सति कुसूलं चैत्रः, स एवं विवक्षते नाहं बिभित्सामि, किन्तु बिभित्सते कुसूलः स्वयमेव । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ अकीट, कीर्षीष्ट, किरते पांसुः स्वयमेव ] 'कृत् विक्षेपे' (१३३४) कृ । अकारीत् पांसुं करी, स एवं विवक्षते नाहं अकारिषम्, किन्तु अकीर्ष्ट । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'ऋतां क्डितीर् ' ( ४|४|११६ ) इर् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । ' तवर्गस्य श्चवर्ग ० ' (१।३।६०) त० ८० । 'अड् धातोरादि० ' ( ४।४।२९) अट् । २३५ कीर्यात् पांसुं करी, स एवं विवक्षते नाहं कीर्यासम्, किन्तु कीर्षीष्ट । आशीः सीष्ट । 'ऋतां क्डितीर्' (४|४|११६ ) इर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । किरति पांसु करी, स एवं विवक्षते नाहं किरामि, किन्तु किरते पांसुः स्वयमेव । वर्त्त० ते । 'तुदादे: श:' ( ३।४।८१) शप्र० । 'ऋतां विडतीर्' (४|४|११६ ) इर् । [अवाकीट, अवकीर्षीष्ट, अवकिरते पांसुः स्वयमेव ] अव 'कृत् विक्षेपे' (१३३४) कृ । अवाकारीत् पांसुं करी, स एवं विवक्षते नाहं अवाकारिषम्, किन्तु अवाकीर्ष्ट । अवकीर्यात् पांसुं करी, स एवं विवक्षते नाहं अवकीर्यासम्, किन्तु अवकीर्षीष्ट । अवकिरति पांसुं करी, स एवं विवक्षते नाहं अवकिरामि किन्तु अवकिरते पांसुः स्वयमेव । [ अगीट, गीर्षीष्ट, गिरते ग्रासः स्वयमेव ] 'गृत् निगरणे' (१३३५) गृ । अगारीत् ग्रासं चैत्रः स एवं विवक्षते नाहं अंगारिषम्, किन्तु अगी । गीर्यात् ग्रासं चैत्रः, स एवं विवक्षते नाहं गीर्यासम्, किन्तु गीर्षीष्ट । आशीः सीष्ट । 'ऋतां क्डितीर्' (४|४|११६ ) इर् । भ्वादेर्नामिनो० (२।१।६३) दीर्घः । 'नाम्यन्तस्था० ' (२|३|१५ ) षत्वम् । गिरति ग्रासं चैत्रः, स एवं विवक्षते नाहं गिरामि, किन्तु गिरते ग्रासः स्वयमेव । [ न्यगीष्ट निगीर्षीष्ट निगिरते ग्रासः स्वयमेव ] न्यगारीत् ग्रासं चैत्रः, स एवं विवक्षते नाहं न्यगारिषम्, किन्तु न्यगीष्ट । निगीर्यात् ग्रासं चैत्रः, स एवं विवक्षते नाहं निगीर्यासम्, किन्तु निगीर्षीष्ट । निगिरति ग्रासं चैत्रः, स एवं विवक्षते नाहं निगिरामि, किन्तु निगिरते ग्रासः स्वयमेव । वर्त्त० ते । 'तुदादेः शः ' ( ३।४।८१) शप्र० अ । 'ऋतां क्ङितीर्' (४|४|११६ ) इर् । [दुग्धे गौः स्वयमेव ] 'दुहक् क्षरणे' (११२७) दुह् । दोग्धि गां पयो गोपः, स एवं विवक्षते नाहं दोहिम, किन्तु दुग्धे गौः स्वयमेव । वर्त्त० ते । 'भ्वादेर्दादेर्घः' (२।१।८३) ह० घ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) घ० ग० । [अदोहि गौः स्वयमेव] दुह् । अधुक्षत् गां देवदत्तः, स एवं विवक्षते नाहं अधुक्षम्, किन्तु अदोहि । अद्यतनी त । 'स्वर - दुहो वा' ( ३।४।९०) ञिच्इ-तलोपश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अड् धातोरादि०' (४।४।२९) अट् । [ अवोचत ब्रूते कथा स्वयमेव ] 'बूंग्क् व्यक्तायां वाचि' (११२५) बू । अवोचत् कथां चैत्रः स एवं विवक्षते नाहं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy