________________
२३४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
waaaaman परि(रिष्)करिष्यति कन्यां चैत्रः, स एवं विवक्षते नाहं परि(रिष्)करिष्यामि, किन्तु परिष्करिष्यते । 'संपरेः कृगः स्सट्' (४।४।९१) स्सडागमः । परिष्करोति कन्यां चैत्रः, स एवं विवक्षते नाहं परिष्करोमि, किन्तु परिष्कुरुते कन्या स्वयमेव ।
[अबूभुषत, भूषयिष्यते, भूषयते कन्या स्वयमेव] 'भूष अलंकारे' (१७५६) भूष् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० → इ । अबूभुषत् कन्यां छात्रः, स एवं विवक्षते नाहं अबूभुषम्, किन्तु अबूभुषत । 'णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) डा० → अ । द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४)अनादिव्यञ्जनलोपः । 'हस्वः' (४।१३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भु० → बु० । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ‘लघोर्दीर्घोऽस्वरादेः' (४।११६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिच्लोपः ।
भूषयिष्यति कन्यां छात्रः, स एवं विवक्षते नाहं भूषयिष्यामि, किन्तु भूषयिष्यते । भविष्यन्ती स्यते । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् ।
भूषयति कन्यां छात्रः, स एवं विवक्षते नाहं भूषयामि, किन्तु भूषयते कन्या स्वयमेव । वर्स० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । गुणे सति अय् ।
[अममण्डत, मण्डयिष्यते, मण्डयते कन्या स्वयमेव] 'मडुण भूषायाम्' (१६३३) मड् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) मण्ड् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । अममण्डत् कन्यां छात्रः, स एवं विवक्षते नाहं अममण्डम्, किन्तु अममण्डत । अद्यतनी त । 'णि-श्रि-द्रु०-' (३।४।५८) डग्र० → अ । द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । ‘णेरनिटि' (४।३।८३) णिच्लोपः ।
मण्डयिष्यति कन्यां छात्रः, स एवं विवक्षते, नाहं मण्डयिष्यामि, किन्तु मण्डयिष्यते । भविष्यन्ती स्यते । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
मण्डयति कन्यां छात्रः, स एवं विवक्षते नाहं मण्डयामि, किन्तु मण्डयते कन्या स्वयमेव । वर्त० ते । 'कर्त्तर्यनदभ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
सन्नन्त
[अचिकीर्षिष्ट, चिकीर्षिष्यते, चिकीर्षते कटः स्वयमेव 'डुकंग करणे' (८८८) कृ । कर्तुमैच्छत् । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'कृतां विडतीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) रलोपः । 'क-डश्च-अ' (४।१।४६) क० → च० । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । अचिकीर्षीत् कटं चैत्रः, स एवं विवक्षते नाहं अचिकीर्षिषम्, किन्तु अचिकीर्षिष्ट । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । इट् । 'अतः' (४।३।८२) अलोपः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । 'अड् धातोरादि०' (४।४।२९) अट् ।
चिकीर्षिष्यते इति नोदाह्रियते, अत्र इटि जिटि च न कश्चिद्विशेषः, एवमुत्तरोदाहरणे ।
चिकीर्षति कटं चैत्रः, स एवं विवक्षते नाहं चिकीर्षामि, किन्तु चिकीर्षते कटः स्वयमेव । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः ।
[अविभित्सिष्ट, बिभित्सिष्यते, बिभित्सते कुशूलः स्वयमेव] 'भिद्रूपी विदारणे' (१४७७) भिद् । भेत्तुमैच्छत् । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलोपः । 'द्वितीयतुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'अघोषे०' (१३५०) द० → त० । अविभित्सीत् कुसूलं चैत्रः, स एवं विवक्ष नाहं अबिभित्सिषम्, किन्तु अबिभित्सिष्ट । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच । इट् । 'नाम्यन्तस्था०'
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org