________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ।।
[पाचिता, पाचिषीष्ट ओदनः स्वयमेव] 'डुपचींष् पाके' (८९२) पच् । पचन्तं प्रयोक्ता । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । पाचयिता ओदनं चैत्रेण मैत्रः, स एवं विवक्षते नाहं पाचयितास्मि, किन्तु पाचिता । श्वस्तनी ता । 'स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां जिट् वा' (३।४।६९) जिटप्र० → इ । ‘णेरनिटि' (४।३।८३) णिग्लोपः । पच् । पचन्तं प्रयुज्यात् । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । पाचिषीष्ट ओदनं चैत्रेण मैत्रः, स एवं विवक्षते नाहं पाचिषीय, किन्तु पाचिषीष्ट ओदनः स्वयमेव । आशीः सीष्ट । ‘स्वर-ग्रह-दृश-हन्भ्यः स्य०' (३।४।६९) जिट्प्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः ।
[प्रास्नाविष्ट, प्रस्नाविषीष्ट गौः स्वयमेव प्रास्नावीत् गां देवदत्तः, स एवं विवक्षते नाहं प्रास्नाविषम्, किन्तु प्रास्नाविष्ट । प्रस्नूयात् गां देवदत्तः, स एवं विवक्षते नाहं प्रस्नूयासम् । किन्तु प्रस्नाविषीष्ट गौः स्वयमेव ।
[उच्छ्रायिता, उच्छ्रायिषीष्ट दण्डः स्वयमेव] उत् ‘श्रिग् सेवायाम्' (८८३) श्रि । उच्छ्रयिता दण्डं दण्डी, स एवं विवक्षते नाहं उच्छ्रयितास्मि, किन्तु उच्छ्रायिता । उत्-श्रि । उच्छ्रीयात् दण्डं दण्डी, स एवं विवक्षते नाहं उच्छ्रीयासम्, किन्तु उच्छ्रायिषीष्ट दण्डः स्वयमेव । 'स्वर-ग्रह-दृश-हन्भ्यः स्य०' (३।४।६९) जिट्प्र० → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् ।
[आघानिष्ट, आधानिषीष्ट गौः स्वयमेव] 'हनंक हिंसा-गत्योः' (११००) हन्, आङ्पूर्व० । आवधीत् गां गोपः, स एवं विवक्षते नाहं आवधिषम्, किन्तु आघानिष्ट । आहन्यात् (आवध्यात्) गां गोपः, स एवं विवक्षते नाहं आहन्यासं (आवध्यासम्), किन्तु आघानिषीष्ट गौः स्वयमेव । सर्वत्र 'स्वर-ग्रह-दृश-हन्भ्यः स्य०' (३।४।६९) जिट्प्र० → इ । 'जिणवि घन्' (४।३।१०१) धनादेशः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।।छ।।
भूषार्थ-सन-किरादिभ्यश्च जिक्यौ ।।३।४।९३।। भिषार्थसन्किरादिभ्यः] भषा अर्थो येषां ते = भुषार्थाः, किर आदिर्येषां ते = किरादयः, भूषार्थाश्च सन च किरादयश्च = भूषार्थसन्किरादयः, तेभ्यः = भूषार्थसन्किरादिभ्यः, पञ्चमी भ्यस् ।
[जिक्यौ] जिश्च क्यश्च = जिक्यौ ।
[अलमकृत कन्या स्वयमेव] अलम् ‘डुकुंग् करणे' (८८८) कृ । अलमकार्षीत् कन्यां चैत्रः, स एवं विवक्षते नाहं अलमकार्षम्, किन्तु अलमकृत कन्या स्वयमेव । 'एकधातौ०' (३।४।८६) जिच-क्या(यौ) यथासंख्यं प्राप्नुवन्ति(तः) अनेन निषिध्यते । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लु०' (४।३।७०) सिचलोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[अलंकरिष्यते कन्या स्वयमेव] अलंकरिष्यति कन्यां चैत्रः, स एवं विवक्षते नाहं अलंकरिष्यामि, किन्तु अलंकरिष्यते । भविष्यन्ती स्यते । 'हनृतः स्यस्य' (४।४।४९) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् |
[अलंकुरुते कन्या स्वयमेव] अलंकरोति कन्यां चैत्रः, स एवं विवक्षते नाहं अलंकरोमि, किन्तु अलंकुरुते कन्या स्वयमेव । वर्त० ते । 'कृग-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अस्य उ० ।
[पर्यस्कृत परिष्करिष्यते परिष्कुरुते कन्या स्वयमेव] परि-कृ । पर्यकार्षीत् (पर्यस्कार्षीत्) कन्यां चैत्रः, स एवं विवक्षते नाहं पर्यकार्षम् (पयस्कार्षम्), किन्तु पर्यकृत (पर्यस्कृत) । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धु-हस्वाल्लु०' (४।३।७०) सिचलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org