________________
२३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
VVVVVINA
[अचूचुरत गौः स्वयमेव] 'चुरण स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अचूचुरत् गां चैत्रः, स एवं विवक्षते नाहं अचूचुरम्, किन्तु अचूचुरत गौः स्वयमेव । अद्यतनी त । 'णि-श्रि-द्रु-उ०' (३।४५८) इप्र० → अ । द्विः । “उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिचलोपः ।
[उदपुपुच्छत गौः स्वयमेव] उत्-पुच्छ । पुच्छमुत्क्षिपति । 'पुच्छादुत्-परि-व्यसने' (३।४।३९) णिप्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । उदपुपुच्छत् गां देवदत्तः, स एवं विवक्षते नाहं उदपुपुच्छे(च्छम्) किन्तु उदपुपुच्छत गौः स्वयमेव । अद्यतनी त । 'णि-श्रि-द्रु-सु०' (३।४।५८) डप्र० → अ । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । ‘णेरनिटि' (४।३।८३) णिङ्लोपः ।
यद्वा उद्गतं पुच्छमस्याः सा = उत्पुच्छा, उत्पुच्छामकार्षीत् । णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिज्(च)प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । उदपुपुच्छत् गां देवदत्तः, स एवं विवक्षते नाहं उदपुपुच्छे(च्छम्), किन्तु उदपुपुच्छत गौः स्वयमेव ।
[प्रास्नोष्ट गौः स्वयमेव] 'स्नुक प्रस्रवणे' (१०८३) स्नु, प्रपूर्व० । प्रास्नावीत् गां देवदत्तः, स एवं विवक्षते नाहं प्रास्नाविषम्, किन्तु प्रास्नोष्ट गौः स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३)सिच् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । तवर्गस्य श्चवर्ग० (१।३।६०) त० -→ ८० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[उदशिश्रियत दण्डः स्वयमेव उत् 'श्रिग् सेवायाम्' (८८३) श्रि । उदशिश्रियत् दण्डं दण्डी,स एवं विवक्षते नाहं उदशिश्रियम्, किन्तु उदशिश्रियत दण्डः स्वयमेव । अद्यतनी त । 'णि-शि-दु-सु०' (३।४।५८) डप्र० → अ । 'द्विर्धातुः परोक्षाडे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अत्र पूर्वमेव नित्यत्वादन्तरङ्गत्वाच्च गुणः । 'संयोगात्' (२१११५२) इय् । 'अड् धातोरादि०' (४।४।२९) अट् ।
'आत्मनेपदाकर्मकाः
व्यकृत सैन्धवः स्वयमेव वि 'डुकंग करणे' (८८८) कृ । व्यकार्षीत् सैन्धवं चैत्रः, स एवं विवक्षते नाहं व्यकार्षम्, किन्तु व्यकृत सैन्धवः स्वयमेव । 'वेः कृगः शब्दे चाऽनाशे' (३।३।८५) आत्मनेपदमुक्तमस्यास्ति । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लु०' (४।३।७०) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । वल्गयति स्मेत्यर्थः ।
व्यकृत कटः स्वयमेव वि-कृ । विकुर्वन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० →इ । व्यकार्षीत् कटं चैत्रः, स एवं विवक्षते नाहं व्यकार्षम्, किन्तु व्यकृत कटः स्वयमेव । विकारयति स्मेत्यर्थः ।
पूर्वं पूर्वोक्तो णिग् न एति, परं करोति वल्गनेऽन्तर्भूतण्यर्थः ।
[आहत गौः स्वयमेव] 'हनंक हिंसा-गत्योः' (११००) हन्, आयूर्व० । आवधीत् गां गोपः, स एवं विवक्षते नाहं आवधिषम्, किन्तु आहत गौः स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'हनः सिच्' (४।३।३८) कित्त्वात् 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४।२।५५) नलोपः । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिचलुका :
व्यतप्त पृथ्वी स्वयमेव] वि 'तपं संतापे' (३३३) तप । व्यताप्सीत् पृथ्वी रविः, स एवं विवक्षते नाहं व्यताप्सम्, किन्तु व्यतप्त पृथ्वी स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लुग० (४।३।७०) सिचलुक् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org