________________
अथ तृतीयाध्यायस्य चतुर्थः पाद: ॥
२३१
तपः कर्चनुतापे च ॥३।४।९१।।
[तपः] तप् पञ्चमी डसि ।
[कर्चनुतापे] कर्ता च अनुतापश्च = कर्चनुतापम्, तस्मिन् । [च] च प्रथमा सि ।
अनुतापग्रहणादावे कर्मणि च ।
[अन्ववातप्त कितवः स्वयमेव] 'तपं संतापे' (३३३) तप, अनु-अवपूर्व० । अन्ववाताप्सीत् कितवं चैत्रः, स एवं विवक्षते नाहं अन्ववातापसम्, किन्तु अन्ववातप्त । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्तथोः' (४।३७०) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । कितवः स्वयमेव ।
[अतप्त तपांसि साधुः] तप् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लु०' (४।३७०) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । तपस् द्वितीया शस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः ।
[अन्वतप्त चैत्रेण भावे - अन्वतप्त चैत्रेण पश्चात्तपनं कृतमित्यर्थः । अद्यतनी त । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'धुड्-हस्वाल्लु०' (४।३७०) सिचलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अन्ववातप्त पापः पापेन कर्मणा] अन्ववातप्त पापः पापेन कर्मणा, पश्चात्तापं कारित इत्यर्थः । पापमस्याऽस्तीति । 'अभ्रादिभ्यः' (७।२।४६) अप्र० । तृतीय टा । 'टा-डसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्येवर्णादिनैदोदरल' (१२।६) ए। स्वकीयं कर्म = स्वकर्म, तेन = स्वकर्मणा । अत्रापि 'भाव-कर्मणोः' (३।४।६८) मिचि प्राप्ते निषेधः । 'तपेस्तपः कर्मकात्' (३।४।८५) अनेन कर्त्तरि अनुतापे भावे कर्मणि । कर्मकर्तरि तु 'एकधातौ कर्मक्रिययैकाकर्मक्रिये' (३।४।८६) जिट(च)प्राप्तः प्रतिषिध्यते ।
[अतापि पृथिवी राज्ञा] कर्मणि तप् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) त्रिच् → इ-तलुक् च । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः, व्याप्तेत्यर्थः ।।छ।।
णि-स्नु-थ्रयात्मनेपदाकर्मकात् ।।३।४।९२।। [णिस्नुश्रयात्मनेपदाकर्मकात् न विद्यते कर्म येषां ते = अकर्मकाः । शेषाद् वा' (७।३।१७५) कच्प्र० → क | आत्मनेपदे अकर्मकाः = आत्मनेपदाकर्मकाः, णिश्च स्नुश्च श्रिश्च आत्मनेपदाकर्मकाश्च = णिस्नुश्रयात्मनेपदकर्मकम, तस्मात् ।
'अनोः कर्मण्यसति' (३।३।८१) इत्यादिभिः सूत्रैर्येभ्यः कर्मण्यसति आत्मनेपदमुक्तास्ते आत्मनेपदाकर्मका उच्यन्ते ।
[अपीपचतौदनः स्वयमेव] 'डुपचींष् पाके' (८९२) पच् । अपाक्षीत् ओदनं चैत्रस्तं पेचिवांसं मैत्रः प्रायुक्त । णिग्प० । अपीपचत् ओदनं चैत्रेण मैत्रः, स एवं विवक्षते नाहं अपीपचम्, किन्तु अपीपचत ओदनः स्वयमेव । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अद्यतनी त । 'णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) ङप्र० → अ । 'द्विर्धातुः परोक्षा-डे० (४।१।१) द्वित्वम् । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) इस्वः । 'असमानलोपे सन्वल्लघुनि डे' (४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । यदि वा पचत्योदनं चैत्रः, स एवं विवक्षते नाहं पचामि, किन्तु पच्यते ओदनः स्वयमेव, पच्यते = पच्यमानः, स्वयं पच्यमानः प्रायुक्त । णिगप्र० । अपीपचतौदनः स्वयमेव । उभयत्र स्वयमेवापाचीत्येवार्थः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org