SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । रुधः ।।३।४।८९॥ [रुधः] रुध् पञ्चमी डसि । [अरुद्ध गौः स्वयमेव 'रुधूपी आवरणे' (१४७३) रुध । अरौत्सीत् गां चैत्रः, स एवं विवक्षते नाहं अरौत्सम्, किन्तु अरुद्ध गौः स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सिजाशिषावात्मने' (४।३।३५) सिचः कित्त्वाद् गुणो न भवति । 'धुड़ हुस्वाल्लु०' (४।३७०) सिचुलोपः । 'अधश्चतुर्थात् तथोर्धः' (२११७९) त० →ध० । 'तृतीयस्तृतीयचतुर्थे' (१३१४९) ध० → द० । 'अड़ धातोरादि०' (४।४।२९) अट् । [अरोधि गौर्गोपालकेन] अरोधि इत्यत्र वाक्यं पूर्ववत् । 'भाव-कर्मणोः' (३।४।६८) जिच्-तलुक् च । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । गौर्गोपालकेन ।।छ।। स्वर-दुहो वा ।।३।४।९०।। [स्वरदुहः] स्वरश्च दुह् च = स्वरदुह्, तस्मात् । [वा] वा प्रथमा सि । [अकृत अकारि कटः स्वयमेव] 'डुकंग करणे' (८८८) कृ । अकार्षीत् कटं चैत्रः, स एवं विवक्षते नाहं अकार्षम्, किन्तु अकृत अकारि कटः स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-ह्रस्वाल्लु०' (४।३।७०) सिचलोपः । 'अड् धातोरादि०' (४।४।२९) अट् । द्वितीये 'एकधातौ कर्मक्रिययैकाऽकर्मक्रिये' (३।४।८६) जिच् → इ-तलोपश्च । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् | [अलविष्ट अलावि केदारः स्वयमेव] 'लूगश् छेदने' (१५१९) लू । अलावीत् देवदत्तः केदारं, स एवं विवक्षते नाहं अलावं (अलाविषम्) किन्तु अलावि केदारः, अलविष्ट केदारः स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । ‘ओदौतोऽवाव्' (१।२।२४) अव् । 'स्वर-ग्रह-दृश०' (३।४।६९) जिट् → इ.। 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि०' (४।४।२९) अट् । [अदुग्ध अदोहि गौः स्वयमेव] 'दुहीक क्षरणे' (११२७) दुह् । अधुक्षत् गां गोपालः, स एवं विवक्षते नाहं अधुक्षम्, किन्तु अदुग्ध अदोहि वा गौः स्वयमेव । अद्यतनी त । ‘ह-शिटो०' (३।४।५५) सप० । 'दुह-दिह-लिह-गुहो०' (४।३।७४) सक्लोपः । 'भ्वादेर्दादेर्घः' (२।१८३) ह० → घ० । अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीयचतुर्थे' (१।३।४९) घ० → ग० । द्वितीये ‘पचि-दुहे:' (३।४।८७) जिच् → इ - तलोपश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [अभेदि कुशूलः स्वयमेव] 'भिदंपी विदारणे' (१४७७) भिद् । अभैत्सीत् कुशूलं देवदत्तः, स एवं विवक्षते नाहं अभैत्सम्, किन्तु अभेदि कुशूलः स्वयमेव । अद्यतनी त । ‘एकधातौ०' (३।४।८६) जिच्→इ-तलुक् च । 'अड् धातोरादि०' (४।४।२९) अट् । [अकारि कटश्चैत्रेण] 'डुकृग् करणे' (८८८) कृ । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) अिच्→इ → तलुक् च । 'मामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः । [अदोहि गौर्बल्लवेन] दुह । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच् → इ-तलुक् च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।।छ।। Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy