SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२९ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ [दुग्धे गौः पयः स्वयमेव] 'दुहक् क्षरणे' (११२७) दुह् । गां दोग्धि पयो गोपालकः, स एवं विवक्षते नाहं दोहिम, किन्तु दुग्धे गौः पयः स्वयमेव । I [ अदुग्ध गोः पयः स्वयमेव ] दुह् । अधुक्षत् गां पयो गोपालकः, स एवं विवक्षते नाहं अधुक्षम्, किन्तु अदुग्ध गौः पयः स्वयमेव । [ अधुक्षत गौः पयः स्वयमेव ] दुह् । अधुक्षत् गां पयो गोपालकः, स एवं विवक्षते नाहं अधुक्षम्, किन्तु अधुक्षत | 'ह- शिटो नाम्युपान्त्याद०' (३|४|५५ ) सक्प्र० । 'भ्वादेददिर्घः' (२।१।८३) ह० घ० । 'ग-ड-द-बादेश्चतुर्थान्तस्यैक०' (२।१।७७) दु० धु० । 'अघोषे प्रथमोऽशिट: ' (१।३१५० ) घ० क० । 'नाम्यन्तस्था० ' (२।३।१५) षत्त्वम्, कयोगे क्ष० । 'अड् धातोरादि० (४।४।२९) अट् । अकर्मकस्य पूर्वेणैव सिद्धे सकर्मकार्थं वचनम् ||६|| [न] न प्रथमा सि । [कर्मणा ] कर्मन् तृतीया टा । [ ञिच्] ञिच् प्रथमा सि । न कर्मणा ञिच् || ३ | ४ १८८ ।। अन्तर्भूतणिगर्थत्वात् कर्मत्वं फलं स्यात् । [ अपक्तोदुम्बरः फलं स्वयमेव ] पच् । अपाक्षीत् उदुम्बरं फलं वायुः, स एवं विवक्षते नाहं अपाक्षम्, किन्तु अपक्तोदुम्बरः फलं स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिच्लोपः । 'चजः क - गम्' (२।१।८६) च० क० । [अदुग्ध गौः पयः स्वयमेव ] दुह् । अधुक्षत् गां पयो देवदत्तः, स एवं विवक्षते नाहं गां पयो अधुक्षम्, किन्तु अदुग्ध गौः पयः स्वयमेव । अद्यतनी त । [ अपाच्योदनः स्वयमेव ] पच् । अपाक्षीत् ओदनं चैत्रः स एवं विवक्षते नाहं अपाक्षम्, किन्तु अपाचि ओदनः स्वयमेव । अद्यतनी त । 'पचि दुहे:' ( ३।४।८७) ञिच्प्र० इ-तलुक् च । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । 'अड् धातोरादि०' (४।४।२९) अट् । [ अदोहि गोः स्वयमेव ] दुह् । अधुक्षत् गां पयो गोपालकः, स एवं विवक्षते नाहं अधुक्षम्, किन्तु अदोहि गौः स्वयमेव । अद्यतनी त । 'पचि दुहे:' ( ३।४।८७) ञिच् इतनुकू च । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ओ । [ अपाचि उदुम्बरः फलं वायुना ] पच् । अपाक्षीत् इत्यादि वाक्यम् । अत्र अपाचि 'भाव- कर्मणोः ' ( ३।४।६८) ञिच् → इ । [ अदोहि गीः पयो गोपालकेन ] दुह् । अदोहि वाक्यं पूर्ववत् । भावकर्मणोः ' ( ३।४।६८) ञिच् इ-तलुक् च । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४ ) गु० ओ | |छ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy