________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । निष्क्रामतीति विवक्षायां न भवति, यदा तु स्वयमेव विसृज्यते इति विवक्ष्यते तदा क्यादयो भवन्ति वा नवा ? उच्यते - शब्दशक्तिस्वाभाव्यात् स्वयमेव विसृज्यते इत्यर्थो न प्रतीयते किन्तु निष्क्रामतीत्येव अत्र विसृजति निःक्रामतीति क्रियाभेदात् ।
२२८
[ गलन्त्युदकं वलीकानि, गलत्युदकं वलीकेभ्यः ] 'गल अदने ' ( ४५२) गल् । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । गलन्त्युदकं वलीकानि, गलत्युदकं वलीकेभ्यः । अत्रापि मुञ्चन्ति पततीति क्रियाभेदात् नैकक्रियत्वम् ।
[ भिद्यमानः कुशूल: पात्राणि भिनत्ति ] भिद् । भिनत्ति कुसूलं मेघः, स एवं विवक्षते नाहं कुसूलं भिनद्द्मि, किन्तु भिद्यते भिद्यमानः । अनेनैव आत्मनेपदं आनप्रत्ययस्तूपसञ्जातम् ||छ ||
पचि-दुहे: ।।३।४।८७।।
[पचिदुहे:] पचिश्च दुहिश्च = पचिदुहि, तस्मात् ।
पचिदुहिभ्यामेकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया इत्यत्र साधनभेदने (देन) क्रियाभेदः, क्रियाभेदात् धातुभेदेऽपि स्याद्वादसमाश्रयणादेकधातुत्वमेकक्रियत्वम्, अकर्मकत्वे पूर्वेण सिद्धमप्यनूद्यते सूत्रारम्भात्, अनेन तु कर्मणि विधीयते तर्ह्यत्र कर्मणीत्युच्यताम् ? न, एवं कृते पचिदुह्यो: तक्रकौण्डिन्यन्यायेन सत्येव कर्मणि स्यात् कर्मण्यसति पूर्वेणापि न स्यात् ।
[ अपाच्योदनः स्वयमेव ] 'डुपचष् पाके' (८९२) पच् । अपाक्षीत् ओदनं चैत्रः, स एवं विवक्षते नाहं अपाक्षम्, किन्तु अपाच्योदनः स्वयमेव । अद्यतनी त । अनेन ञिच्-तलुक् च । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अड् धातोरादि० ' ( ४।४।२९ ) अडागमः ।
[ पच्यते ओदनः स्वयमेव ] पचति ओदनं चैत्रः, स एवं विवक्षते नाहं पचामि, किन्तु पच्यते ओदनः स्वयमेव । अ
क्यप्र० ।
[ पक्ष्यते ओदनः स्वयमेव ] पच् । पक्ष्यति ओदनं चैत्रः, स एवं विवक्षते नाहं पक्ष्यामि, किन्तु पक्ष्यते ओदनः स्वयमेव । भवि० स्यते । 'च-ज: क- गम्' (२।१।८६) च० क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्, क-षसंयोगे क्ष० ।
[दुग्धे गौः स्वयमेव] 'दुर्हीींक् क्षरणे' (११२७) दुह् । दोग्धि गां देवदत्तः, स एवं विवक्षते नाहं दोहिम, किन्तु दुग्धे गौः स्वयमेव । दुग्धे इत्यत्र वर्तमाना ते । 'भूषार्थ सन्-किरादि०' ( ३।४।९३) गणत्वात् क्यो न स्यात् । अनेन आत्मनेपदम् ।
[ अदुग्ध गौः पयः स्वयमेव ] दुह् । अधुक्षत् गां चैत्रः, स एवं विवक्षते नाहं अधुक्षम्, किन्तु अदुग्ध गौः स्वयमेव । अत्र आत्मनेपदम् । अद्यतनी त । 'ह-शिटो' नाम्युपान्त्याददृशोऽनिटः सक्' ( ३।४।५५) सक्प्र० । 'दुह - दिह - लिह - गुहो दन्त्यात्मने वा सकः' (४।३ । ७४) सक्लोपः । 'स्वर - दुहो वा' ( ३।४।९० ) ञिनिषेधः ।
[ उदुम्बरः फलं पच्यते स्वयमेव] 'डुपचष् पाके' (८९२) पच् । अन्तर्भूतण्यर्थो द्विकर्मकः । उदुम्बरं फलं पचति वायुः, स एवं विवक्षते नाहं पचामि, किन्तु उदुम्बरः फलं पच्यते स्वयमेव ।
[ अपक्तोदुम्बरः फलं स्वयमेव ] पच् । अपाक्षीत् उदुम्बरं फलं वायुः, स एवं विवक्षते नाहं अपाक्षम्, किन्तु अपक्त उदुम्बरः फलं स्वयमेव ।
P. भिद्यमानः सन् पात्राणि भिनत्ति । भिद् । भिद्यत इति । 'शत्रानशावेष्यति०' (५।२।२० ) आनश्प्र० । अनेन 'क्यः शिति' (३।४।७०) क्यप्र० । अतो म आने' (४|४|११४) मोऽन्तः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org