________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ।।
२२७
(४।३५१) वृ० आर् ।
[क्रियते कटः स्वयमेव] करोति कटं देवदत्तः, स एवं विवक्षते नाहं करोमि, किन्तु क्रियते कटः स्वयमेव । वर्त० ते । अनेन क्यप्र० । 'रिः श-क्या-ऽऽशीर्ये' (४।३।११०) ऋ० → रि० ।
[क्रियमाणः कटः स्वयमेव] क्रियते = क्रियमाणः । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । अनेन क्यप्र० । 'अतो म आने' (४।४।११४) मोऽन्तः । 'रिः श-क्या-5ऽशीर्ये' (४।३।११०) क्रि० । 'र-पृवर्णान्नो ण०' (२।३।६३) न० → ण० ।
[चके कटः स्वयमेव कृ | चकार कटं देवदत्तः, स एवं विवक्षते नाहं चकार, किन्तु चक्रे । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४१।१) द्वित्वम् । 'ऋतोऽत्' (४।१।३८) कृ० → क० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'इवर्णादे०' (१।२।२३) रत् ।
[अभेदि कुशूलः स्वयमेव 'भिदूंपी विदारणे' (१४७७) भिद् । अभैत्सीत् कुसूलं देवदत्तः, स एवं विवक्षते नाहमभैत्सम्, किन्तु अभेदि कुसूलः स्वयमेव । अद्यतनी त । अनेन जिच-तलुक च ।
[भिद्यते कुशूलः स्वयमेव भिद् । भिनत्ति कुसूलं देवदत्तः, स एवं विवक्षते नाहं भिनदिम, किन्तु भिद्यते ।
[बिभिदे कुशूलः स्वयमेव भिद् । विभेद कुसूलं देवदत्तः, स एवं विवक्षते नाहं बिभेद, किन्तु बिभिदे । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलोपः । द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० ।
एवं चाकर्मकत्वादावेप्यात्मनेपदं भवति, जिच तु न भवति ‘णि-स्नुथ्रयात्मनेपदाऽकर्मकात्' (३।४।९२) इति निषेधात् ।
[क्रियते कटेन] कृ । क्रियते कटो देवदत्तेन, तेन(स) एवं विवक्ष्यते, न मया क्रियते, किन्तु क्रियते कटेन स्वयमेव ।
[भिद्यते कुशूलेन भिद् । भिद्यते कुसूलो देवदत्तेन,स एवं विवक्ष्यते, न मया भिद्यते, किन्तु भिद्यते कुसूलेन स्वयमेव । अनेनैव क्यप्र० ।
[पचत्योदनं चैत्रः, सिध्यत्योदनः स्वयमेव 'षिधू गत्याम्' (३२०) पिध् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२१३१९८) सिधु । पचति ओदनं चैत्र(त्रः), स एवं विवक्षते नाहं पचामि, किन्तु सिध्यति ओदनः स्वयमेव । अत्र हि धातुद्वयं भिन्नं धातुत्वात् नात्मनेपदं स्यात् ।
[साध्वसिश्छिनत्ति] 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । असिना छिनत्ति देवदत्तः, स एवं विवक्षते नाहं असिना छिनद्मि किन्तु साध्वसिश्छिनत्ति । साधु ‘क्रियाविशेषणात्' (२।२।४१) द्वितीया अम् । अत्र हि करणस्था क्रिया अतो न भवति ज्यादयः ।
[साधु स्थाली पचति स्थाल्यां पचति देवदत्तः, स एवं विवक्षते नाहं स्थाल्यां पचामि, किन्तु साधु स्थाली पचति । अत्र द्वयं करणाधिकरणक्रिययैकक्रिये मा भूत् ।
[स्रवत्युदकं कुण्डिका, स्रवत्युदकं कुण्डिकायाः] इं (११-) इं (१२)- दूं (१३) - शुं (१४) - ‘झुं गतौ' (१५) सु । स्रवत्युदकं कुण्डिका, स्रवत्युदकं कुण्डिकायाः, विसृजति उदकं कुण्डिका, सा एवं विवक्षते नाहं विसृजामि, किन्तु स्वयमेव
P. F# 'षिधूंच् संराद्धौ' (११८५) षिध् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
www.janello