________________
२२६
( ७।४।१) वृद्धि: । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[सृज्यते मालां धार्मिकः ] सृज् । वर्त्त० ति (ते) । अनेनैव क्यप्र० ।
[स्रक्ष्यते मालां धार्मिकः] सृज् । भविष्यन्ती स्यते । 'अः सृजि-दृशोऽकिति' (४|४|१११ ) अकारागमः । 'इवर्णादे० ' ष० । 'ष ढोः कस्सि' (२।१।६२ ) प०
क० ।
(१।२।२३ ) रत् । यज-सृज - मृज- राज० ' (२।१।८७) ज० 'नाम्यन्तस्था० ' (२।३।१५) स०प०, क-पसंयोगे क्ष० ।
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ व्यत्यसृष्ट माले मिथुनम् ] सृज् वि-अतिपूर्व० । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'धुह्रस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिच्लोपः । 'यज- सृज- मृज०' (२।१।८७) ज० प० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् । 'क्रियाव्यतिहारे० ' ( ३।३।२३) इत्यात्मनेपदम् ||छ ||
तपस्तपःकर्मकात् || ३ | ४।८५ ।।
[तपे:] तपि पञ्चमी इसि ।
[ तपःकर्मकात् ] तप एव कर्म यस्य सः = तपःकर्मकः । शेषाद् वा' ( ७।३।१७५ ) कच्प्र० तस्मात् । [तप्यते तपः साधुः ] 'तपं सन्तापे' ( ३३३ ) तप् । वर्त्त० ते । अनेन क्यप्र०य ।
ञिच् तु 'तपः कर्त्रनुतापे च' ( ३।४।९१) इति प्रतिषेधान्न भवति ।
[कुरुते तपांसि साधुः] ‘डुकृंग् करणे' (८८८) कृ । वर्त्त० ते । 'कृग्-तनादेरुः ' ( ३।४।८३) उप० । गुणे सति 'अतः शित्युत्' (४।२।८९) उत् भवति ।
[उत्तपति सुवर्णं सुवर्णकारः ] तप्, उत्पूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
[ तपांसि साधु( धुं) तपति (न्ति ) ] दुःखयन्तीत्यर्थः ॥ छ ॥
एकधातौ कर्मक्रिययैकाऽकर्मक्रिये || ३ | ४ |८६ |
[ एकधातौ ] एकश्चासौ धातुश्च = एकधातुस्तस्मिन् । [कर्मक्रियया ] कर्मस्थ क्रिया = कर्मक्रिया, तया ।
[एकाऽकर्मक्रिये] न विद्यते कर्म यस्यां सा = अकर्मा, एका अकर्मा क्रिया यस्याऽसौ एकाऽकर्मक्रियस्तस्मिन् । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः ।
[अकारि कटः स्वयमेव ] 'डुकृंग् करणे' (८८८) कृ । अकार्षीत् कटं देवदत्तः, स एवं विवक्षते नाहमकार्षम्, किन्तु अकारि कटः स्वयमेव । अद्यतनी त । अनेन ञिच् इ-तलुक् च । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः आर् । 'अड् धातोरादि० (४।४।२९) अट् ।
Jain Education International
[कारिष्यते कटः स्वयमेव ] करिष्यति कटं देवदत्तः स एवं विवक्षते नाहं करिष्यामि, किन्तु कारिष्यते कटः स्वयमेव । भवि० स्यते । 'स्वर-ग्रह-दृश- हन्भ्यः स्य० ' ( ३।४।६९) इति यथाविहितस्तथा अनेन ञिच् । 'नामिनोऽकलि - हलेः '
For Private & Personal Use Only
www.jainelibrary.org