________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
विकल्पाभावार्थः, तेन अकृत अकृथाः इत्यत्र 'धुड्-ह्रस्वाल्लुगनिटस्त-थोः' (४।३।७०) इति नित्यमेव सिच् लुक् भवति, शवर्थश्च न करते करतीत्यपि भवति, अन्यैः कृग्तनादौ पठितस्तनादिसाहचर्यात् डुकृंग् गृह्यते, न कृंग्ट् ।
[करोति, कुरुते] 'डुकृंग् करणे' (८८८) कृ । वर्त्त० तिव्-ते । अनेन उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । 'अतः शित्युत्' (४।२।८९) अ०
उ० ।
[कुर्वन्] कृ । करोतीति । 'शत्रानशावेष्यति०' (५।२।२० ) शतृप्र० अत् । अनेन उप्र० । 'नामिनो गुणोऽक्ङिति ' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० उ० । 'इवर्णादे० ' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । ' दीर्घड्याब्०' (१।४।४५) सिलोपः । ' पदस्य ' ( २ ।१ ।८९) तलोपः ।
[ कुर्वाणः ] कृ । कुरुते । 'शत्रानशावेष्यति०' (५/२/२०) आनश्प्र० आन । अनेन उप्र० । 'नामिनो गुणोऽक्ति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९ ) अ० उ० । 'इवर्णादे० ' (१।२।२१) वत् । प्रथमा सि । 'र- पृवर्णान्नो ण० ' (२।३।६३) न० ० । सो रुः ' (२।१।७२ ) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्गः ।
२२५
[ तनोति ] 'तनूयी विस्तारे (१४९९ ) तन् । वर्त्त० तिव् । अनेन उप्र० । 'उ-श्नोः' (४।३।२) गु० ओ ।
[तनुते] तन् । वर्त्त० ते । अनेन उप्र० ।
[ तन्वन् ] तन् । तनोतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् । अनेन उप्र० । 'इवर्णादे० ' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । ' दीर्घड्याव्० ' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) तलोपः ।
[तन्वानः ] तन् । तनुते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० आन । अनेन उप्र० । 'इवर्णादे० ' (१।२।२१) वत् । प्रथमा सि । 'सो रु' (२1१।७२) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्ग: ।
इति यतस्तनादयः ||छ ||
सृजः श्राद्धे ञि-क्या SSत्मने तथा || ३ | ४ |८४ ॥
Jain Education International
[सृजः] सृज् पञ्चमी इसि ।
[ श्राद्धे ] श्रत् 'डुधांग्क् धारणे च' (११३९) धा । श्रद्धानं = श्रद्धा । ' मृगयेच्छा - याच्ञा तृष्णा-कृपा भा-श्रद्धा-ऽन्तर्द्धा' ( ५ | ३ | १०१ ) श्रद्धा निपात्यते । श्रद्धा अस्याऽस्तीति । 'प्रज्ञा श्रद्धा ऽर्चा - वृत्तेर्णः ' ( ७।२।३३) णप्र० अ । वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) आलोपः तस्मिन् ।
[ ञिक्याऽऽत्मने] ञिश्च क्यश्च आत्मनेपदं च तत् । 'ते लुग्वा' (३।२।१०८) पदलोपः । सि । सूत्रत्वात् लोपः । श्रद्धावत् इति कोऽर्थः ? धर्मार्थो मानसो व्यापारविशेषः ।
[ तथा ] तथेत्यत्र ञिक्यौ तथा विधीय ( ये ) ते आत्मनेपदं तु मुख्यमेव विधीयते ।
[ असर्जि मालां धार्मिकः] 'सृर्जी (जं) त् विसर्गे' (१३४९) सृज् । 'सृजिंच् विसर्गे' (१२५५) सृज् । अद्यतनी त । अनेन ञिइ तस्य लुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादि०' (४।४।२९) अट् । माला द्वयम् । धर्म । धर्मेण चरति । 'धर्मा - ऽधर्माच्चरति' (६।४।४९) इकण्प्र० इक । ' वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' P. ञिश्च क्यश्च आत्मनेपदं च = जिक्यात्मनेपदानि । जस् । 'ते लुग्वा' (३।२।१०८) पदलोपः । सूत्रत्वात् जस्लोपः ।
For Private & Personal Use Only
www.jainelibrary.org