SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [तुदति] 'तुदर्दीत् व्यथने' (१३१५) तुद् । वर्त्त० तिव् । अनेन शप्र० । तुदन तुद् । तुदतीति । ‘शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । अनेन शप्र० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ‘दीर्घड्याब०' (१।४।४५) सिलोपः । 'पदस्य' (२।१८९) तलोपः । [तुदमानः] तुद् । तुदते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । अनेन शप्र० । 'अतो म आने' (४।४।११४) मोऽन्तः । प्रथमा सि । 'सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । इति तितस्तुदादयः ।।छ।। रुधां स्वराच्श्नो नलुक च ।।३।४।८२।। [रुधाम्] रुध्, यद्वा रुध् च रुध् च रुध् च = रुधः । ‘स्यादावसंख्येयः' (३।१।११९) एकशेषः, तेषां = रुधाम्, षष्ठी आम् । [स्वरात्] स्वर पञ्चमी इसि । [नलुक्] ॥ नो लुक् = नलुक्, प्रथमा सि । [च] च प्रथमा सि । [रुणद्धि, रुन्द्धे] 'रुबॅपी आवरणे' (१४७३) रुध् । वर्त्तः तिव्-ते । अनेन श्नप्र० → न । आत्मनेपदे 'श्नाऽस्त्योर्मुक्' (४।२।९०) अलोपः । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) णत्वाऽपवादे ने रुन्छे । [भिनत्ति, भिन्ते] 'भिदंपी विदारणे' (१४७७) भिद् । वर्त० तिव-ते । अनेन श्नप्र० → न । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलोपः । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० । [भनक्ति] 'भओंप आमर्दने' (१४८६) भञ् । वर्त० तिव् । अनेन श्नप्र० - अग्रेतननकारस्य लुक् च । 'च-जः कगम्' (२११८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० ।। हिनस्ति] 'हिसु हिंसायाम्' (१४९४) हिस् । ‘उदितः स्वरान्नोऽन्तः' (४।४।९८) हिन्स् । वर्त्तः तिव् । अनेन श्नप्र०अग्रेतननकारस्य लुक् च ।। इति पितो रुधादयः ।।छ।। कृग-तनादेरुः ।।३।४१८३।। [कृरतनादेः] + कृग् च तनादयश्च = कृपतनादिस्तस्मात् । [उ:] उ प्रथमा सि । तनादिषु पाठमकृत्वा कृगो भ्वादौ पाठः 'तन्भ्यो वा त-थासि न्-णोश्च' (४।३।६८) इति सिचो लुप् P. नस्य लुक् । P. + तन् आदिर्यस्य सः = तनादिः, कृग् च तनादिश्च = कृरतनादिः । Jain Education Intemational Interational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy