________________
२२३
NNNNNNNNNNNNN
अथ तृतीयाध्यायस्य चतुर्थः पादः ।। (१।४।३५) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ।
[क्रीणाति] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । वर्त्तः तिव् । अनेन श्नाप्र० → ना । 'र-पृवर्णान्नो ण०' (२।३।६३) न० → ण ।
[प्रीणाति] 'प्रींग्श् तृप्ति-कान्त्योः ' (१५१०) प्री । वर्त्तः तिव् । अनेन श्नाप्र० → ना । ‘र-पृवर्णान्नो ण०' (२।३।६३) न० → ण० ।
इति शितः ज्यादयः ।।छ।।
व्यञ्जनाच्छ्नाहेरानः ।।३।४।८०॥ [व्यञ्जनात्] व्यञ्जन पञ्चमी डसि । [श्नाहे:] श्ना युक्ता हि: = श्नाहिस्तस्य ।
[आनः] आन प्रथमा सि ।।
[पुषाण] 'पुष्श् पुष्टौ' (१५६४) पुष् । पञ्चमी हि । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । अनेन श्नाहि → आन आदेशः ।
[मुषाण] ‘मुषश् स्तेये' (१५६३) मुष् । पञ्चमी हि । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । अनेन श्नाहि → आन आदेशः ।
[उत्तभान] उत्-स्तम्भू इति सौत्रो धातुः, स्तम्भ । पञ्चमी हि । 'क्यादेः' (३।४।७९) श्नाप्र० । अनेन आन । 'उदः स्था-स्तम्भः सः' (१।३।४४) सलोपः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः ।
[विष्कभाण] स्कम्भू इति सौत्रो धातुः, विपूर्व० । पञ्चमी हि । 'क्यादेः' (३।४७९) श्नाप्र० । अनेन आन । 'स्कभ्नः' (२।३५५) इति षत्वम् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः ।
[लुनीहि 'लूगश् छेदने'(१५१९) लू । पञ्चमी हि । 'क्यादेः' (३१४७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० । 'प्वादेहूस्वः' (४।२।१०५) ह्रस्वः ।
[अश्नाति] 'अशश् भोजने' (१५५८) अश् । वर्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना ।
[उत्तभ्नुहि उत्-स्तम्भू इति सौत्रो धातुः । पञ्चमी हि । 'स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च' (३।४।७८) श्नुप्र० → नु । 'उदः स्था-स्तम्भः सः' (१३।४४) सलोपः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः ।
[विस्कम्नुहि] स्कम्भू इति सौत्रो धातुः, स्कम्भ, विपूर्व० । पञ्चमी हि । 'स्तम्भू-स्तुम्भू-स्कम्भू०' (३।४।७८) श्नुप्र० → नु । स्कम्भू इत्यत्र श्नानिर्देशात् श्नु आगते सस्य षत्वं न भवति ।।छ।।
तुदादेः शः ।।३।४।८१।। [तुदादेः] तुद् आदिर्यस्याऽसौ तुदादिस्तस्मात् ।
[शः] श प्रथमा सि ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org