SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ २२१ सुनोति 'कुंगट अभिषवे' (१२८६) षु । 'षः सोऽष्ट्यै-ष्ठिव ष्वष्कः' (२।३।९८) सु । वर्त्त० तिव् । अनेन श्नुप्र० → नु । 'उ-श्नोः ' (४।३।२) गु० ओ । [सुनुते सु । वर्त्त० ते । अनेन श्नुप्र० → नु । [सुन्वन्] सु । सुनोतीति । 'सुग्-द्विषार्हः सत्रि-शत्रु-स्तुत्ये' (५।२।२६) अतृश्प० → अत् । अनेन श्नुप्र० → नु । 'इवर्णादे०' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः । [सुन्वानः] सु । सुनुते । ‘शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । अनेन श्नुप्र० → नु । 'इवर्णाद०' (१२१२१) वत् । [सिनोति] 'पिंग्ट् बन्धने'(१२८७) षि । 'षः सोऽष्ट्यै०' (२।३।९८) सि । वर्त्तः तिव् । अनेन श्नुप्र० → नु । 'उ-श्नोः ' (४।३१२) गु० ओ | [सिनुते] सि । वर्त्त० ते । अनेन श्नुप्र० → नु । [सिन्वन] सि । सिनोतीति । ‘शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । अनेन श्नुप्र० → नु । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'दीर्घड्याव्-व्यञ्जनात् से:' (१।४।४५) सिलोपः । ‘पदस्य' (२1१1८९) तलोपः । [सिन्वानः] सि । सिनुते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन । अनेन श्नुप्र० → नु । 'इवर्णादरस्वे०' (१।२।२१) वत् । इति टितः स्वादयः ।।छ।। वाऽक्षः ||३४७६॥ [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । [अक्षः] अक्ष पञ्चमी ङसि । [अक्ष्णोति, अक्षति] 'अक्षौ व्याप्तौ च' (५७०) अक्ष । वर्त० तिव् । अनेन विकल्पे श्नुप० →नु । 'उ-श्नोः' (४।३।२) गु० ओ । पक्षे 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शवप० → अ ।।छ।। तक्षः स्वार्थे वा ।।३।४।७७।। [तक्षः] तक्ष पश्चमी डसि । [स्वार्थे] स्वकीयोऽर्थः = स्वार्थस्तस्मिन्, यद्वा स्वश्चासावर्थश्च = स्वार्थस्तस्मिन् । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।। [तक्ष्णोति, तक्षति काष्ठम्] 'तक्षौ तनूकरणे' (५७१) तक्ष् । वर्त्त० तिव् । अनेन वा श्नुप्र० → नु । 'उ-श्नोः' (४।३।२) गु० ओ । पक्षे 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शवप० । [तक्ष्णुवानः] तक्ष । तक्षितुं शक्तः । 'वयः-शक्ति-शीले' (५।२।२४) शानप्र० → आन । अनेन श्नुप्र० → नु । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy